________________
२५६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-२१-२२
द्वितीयाद्यन्तपवेति-शत्रान शोर्वर्तमानायाश्च समान विषयत्वेऽपि नाति प्रसक्तिरपि, द्वितीयाद्यन्तेन पदेन द्रव्याभिधायिना वर्तमानान्तेन च क्रियाभिधायिना सत्ता पश्येत्यादिक्रियायाः सामानाधिकरण्याऽसंभवात् संबोधने च सिद्धविषयत्वात् साध्यवाचिनि वर्तमानान्ताऽनुपपन्नत्वात्तरादिवजिततद्धितप्रत्ययस्योत्तरपदस्य च नामत्वे सति संभवाल्लक्षणहेतुत्वयोरपि सिद्धधर्मत्वात् साध्याभिधायिनाऽन्वयायोगः, एतदेव पचन्तमित्यादिना क्रमेण दर्शयति ।
___ कुर्वन भक्तिरस्येति-भज्यत इति कर्मणि क्तो भक्तिः सेव्य इत्यर्थः, अत्र वाच्ये पुंलिङ गेऽपि शब्दशक्तिस्वाभाव्यात् क्त्यन्तस्य स्त्रीलिङ्गतैव । तिष्ठन्तोऽनुशासति गणका इति-अत्राऽनुशासनक्रियया गणका लक्ष्यन्ते, सा चाऽनुशासनक्रिया उपविष्ट उर्द्ध गच्छत्युभयविषयत्वेन दुर्लक्षा अतः स्थानक्रियया लक्ष्यते । नन्वनुशासतीत्यत्रापि वर्तमाना न प्राप्नोति, यतोऽनयापि गणका लक्ष्यन्ते ? न, क्रियायाः कर्मतापन्नाया लक्षणमिति वचनात् द्रव्यादेर्गणकस्य लक्षणे वर्तमाना भवत्येव । चादियोगे न भवतीति-न केवलं द्रव्यगुणयोलक्षणे चादियोगे सति क्रियाया अपि लक्षणे न भवति, यः पचति चेत्यादौ न क्रिययोलक्ष्यलक्षणभावो विवक्षितः, क्रमेण हि प्रतीयमानयोरर्थयोर्लक्ष्यलक्षणभाव: स्याज्जन्यजनकभावो वा, अत्र तु तुल्यकालतैव क्रिययोरऽत एव तद्योतको च शब्दौ प्रयुज्यते इति । स मैत्र इत्युभयत्र संबध्यते इति द्रव्यलक्षणे न भवति, क्रियालक्षणेऽपि न भवति, तथाहि-कुत्रापि एकस्मिन् प्रमातरि पचनपठनयोर्लक्ष्यलक्षणभावो येन गृहीतः स एवं ब्रवीति, यः पचति च स पठति च, एवं पचनक्रियालक्षणं पठनक्रिया लक्ष्या, चादियोगाऽभावे तु शत्रानशौ भवत एव, यथा पचन् पचमानो वा स पठति ।
तौ माझ्याक्रोशेषु ।। ५. २. २१ ॥
माङय पपदे आक्रोशे गम्यमाने सति तौ-शत्रानशौ प्रत्ययो भवतः, बहुवचनादसत्यपि । मा पचन् वृषलो ज्ञास्यति, मा पचमानोऽसौ मर्तु कामः ।
__ "मा जीवन यः पराधज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु, जननोक्लेशकारिणः ॥१।।
( शिशुपालवधे, सर्ग-२) शत्रानशोरनुवृत्तावपि 'तो' ग्रहणमवधारणार्थम्, तेनात्र विषये असरूपविधिनाप्यद्यतनी न भवति । भवतीत्यपि कश्चित् ।।२१॥
___ न्या० स०-तौ माया-बहुवचनादसत्यपीति-तेन ये केचित् सत्यसति वा आक्रोशास्तेषु शत्रानशौ भवत इति व्याख्येयम् । मा पचन् वृषल इत्यादि-मा पाक्षीत्, मा पक्त, मा जोवीदित्यादि वाक्यमर्थकथनम् , यावता आक्रोशविवक्षायामनेन शत्रानशावेव, असरूपविधिनाप्यत्राद्यतनी नेष्टा । केचिदऽसरूपविधिमिच्छन्ति, तन्मतेन वा वाक्यम् यद्वा मा क्लेदयन् , मा क्लेदयमानः, मा प्राणान् धारयन्नित्यर्थान्तरेण वा वाक्यम् ।
वा वेत्तेः क्वसुः॥ ५. २. २२ ॥