________________
॥ श्रर्हम् ॥
अथ पञ्चमाध्याये द्वितीयपादः
श्रु-सद-वस्भ्यः परोक्षा वा ।। ५. २.१ ॥
भूत इति अनुवर्तते श्रुणोत्यादिभ्यो धातुभ्यो भूतार्थवृत्तिभ्यः परोक्षा विभक्तिर्वा
भवति ।
उपशुभाव, उपससाद, अनुवास। वावचनात् यथास्वकालमद्यतनी ह्यस्तनी चउपाश्रौषोत्, उपाभ्रूणोत्; उपासदत्, उपासीदत्; अन्ववात्सीत्, अन्ववसत् । एवं शुश्रुवे, अभाव, अश्रूयतेत्यादि ।
श्रन्ये तु श्रवादिभ्यो भूतमात्रे क्वसुमेवेच्छन्ति न परोक्षाम् । ह्यस्तनीमपोच्छत्यन्यः । बहुवचनं व्याप्त्यर्थम् तेन भूतानद्यतनेऽपीयं ह्यस्तन्या न बाध्यते । श्रसरूपत्वादेवाद्यतन्यादिसिद्धौ वावचनं विभक्तिष्वस रूपोत्सर्ग विभक्तिसमावेशनिषेधार्थम् ॥ १॥
न्या० स० श्रुतदवस्भ्यः - यथास्वकालमिति स्वकालस्याऽनतिक्रमेण तथा ह्यद्यतनेऽद्यतनी अनद्यतने तु ह्यस्तनी ।
randछत्य इति न केवलं भूतमात्रे परोक्षां ह्यस्तनीमपीत्यर्थः । विभक्तिष्विति तेन विभक्तीनामेवान्योन्यमसरूपविधिर्नास्ति, प्रत्ययेन तु विभक्तीनामस्त्येव तेनोपश्रुतवानित्यादि सिद्धम् । निषेधार्थमिति - तेन 'अयदि' ५-२-९ इति सूत्रे वत्स्यन्तीविषये ह्यस्तनी न ।
तत्र सु- कानौ तत् ॥ ५. २. २ ॥
तत्र - परोक्षामात्रविषये धातोः परौ क्वसुकानौ प्रत्ययौ भवतः, तौ च परोक्षावद् व्यपदिश्येते । तत्र क्वसुः परस्मैपदत्वात् कर्तरि, कानस्त्वात्मनेपदत्वाद् भाव- कर्मणोरपि ।
शुश्रुवान्, उपशुश्रुवान् ; सेदिवान्, उपसेदिवान्, प्रसेदिवान्, आसे दिवान्, निषेदिवान्, ऊषिवान्, अनूषिवान्, अध्यूषिवान्; पेचिवान्, पाचयांचकृवान्, जग्मिवान्, पपिवान्, पेचानः, चक्राणः । परोक्षावद्भावात् द्विर्वचनादि । परोक्षावद्भावादेव कित्त्वे सिद्धे कित्करणं संयोगान्तधात्वर्थम् तेनाजिवान्, बभज्वान्, सस्वजानः, एषु कित्त्वात् नलोपः । ऋदन्तानां गुणप्रतिषेधार्थं च - शिशीर्वान्, तितीर्वान्, पुपूर्वान् कर्मणि-शशिराण:, ततिराणः, पपुराणः । भावे-शशिराणमित्यादि ।
,
बहुलाधिकारात् श्रु-सद- वसिभ्यः कानो न भवति । केचित् तु " एभ्य एव क्वसुर्नान्येभ्यः, कानस्तु प्रत्यय एव नेष्यते" इत्याहुः । अपरे तु सर्वधातुभ्यः क्वसुमेवेच्छन्ति न कानम् । भूताधिकारेणैवोक्तपरोक्षाविषयत्वे लब्धे तत्र ग्रहणं परोक्षामात्रप्रतिपत्त्यर्थम् तेन 'पेचिवान्' इत्यादि सिद्धम् ||२||