________________
पाद- १, सूत्र - १७३-१७४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ २४७
जषोऽतृः ।। ५. १. १७३ ॥
जीर्भूतार्थवृत्तेरतृप्रत्ययो भवति । जीर्यति स्म जरन्, जरती । असरूपत्वात्जीर्ण, जीर्णवान् ऋकारो दीघत्वप्रतिषेधार्थः ।। १७३ ।।
क्तक्तवतू ।। ५. १. १७४ ॥
धातोर्भूतेऽर्थे वर्तमानात् क्तक्तवतू प्रत्ययौ भवतः ।
क्रियते स्म - कृतः, करोति स्म कृतवान् । प्रकृतः कटं देवदत्तः, प्रत्र समुदायस्याभूतत्वेऽपि कटैकदेशे कटत्वोपचारात् तस्य च निर्वृत्तत्वाद् भूत एव धात्वर्थ इत्यादिकर्मण्यप्यनेनैव क्तक्तवतू सिद्धौ ॥१७४॥ ॥
इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ
पञ्चमस्याध्यायस्य प्रथमः पादः ॥ १ ॥
अगणितपञ्चेषुबल: पुरुषोत्तमचित्तविस्मयं जनयन् । रामोल्लासन मूर्तिः श्रीकर्ण कर्ण इव जयति ॥ १॥
इत्याचार्यश्री० सिद्धहेमचन्द्राभिधानस्वोपज्ञ- शब्दानुशासनबृहद्वृत्तेः पञ्चमाध्या
यस्य न्यासत: प्रथमः पादः समाप्तः ।