________________
पाद - १, सूत्र - १६५ - १६९ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ २४५
श्रग्नि चितवान्- प्रग्निचित् । प्रत्रापि चतुविधो नियमः । १- अग्नेरेवेति नियमात्कुड्य: चितवान् कुडयचाय इत्यण् । २ - चेरेवेति नियमात् अग्नि कृतवान् -- श्रग्निकारः । ३--भूत एवेति नियमात् -- अग्नि चिनोति चेष्यति वा अग्निचाय: । ४-- क्विवेवेति नियमात्अग्नि चितवानित्यण् न भवति ।। १६४ ।।
कर्मण्यग्न्यर्थे । ५. १. १६५ ॥
"
कर्मणः पराद् भूतेऽर्थे वर्तमानाच्चिनोतेः कर्मणि कारकेऽग्न्यर्थेऽभिधेये क्विप् भवति । श्येन इव चीयते स्म -- श्येनचित् एवं - कङ्कचित्, रथचक्रचित्, अग्न्यर्थ इष्टकचय उच्यते । बहुलाधिकाराद्रढिविषय एवायं दृष्टव्यः । केचित् तु संज्ञाशब्दत्वात् कालत्रयेऽप्ययं भवतीत्याहु:-- श्येन इव चीयते चितश्चेष्यते वा - श्येनचित् ।। १६५ ।।
दृशः क्वनिपू ।। ५. १. १६६ ।।
कर्मणः परात् दृशो भूतेऽर्थे वर्तमानात् क्वनिप् प्रत्ययो भवति । मेरु ं दृष्टवान्-मेरुदृश्वा विश्वदृश्वा बहुरश्वा, परलोकदृश्वा । सामान्यसूत्रेण क्वनिपि सिद्धे भूतकाले प्रत्ययान्तरबाधनार्थं वचनम् ॥ १६६ ॥
न्या० स०--दृशः क्व - प्रत्ययान्तरबाधनार्थमिति - अणादेरित्यर्थः ।
सह-राजभ्यां कृगु-युधेः ।। ५. १. १६७ ॥
सहशब्दात् राजन् शब्दाच्च कर्मणः परात् करोतेर्यु' घेश्च वर्तमानात् क्वनिप् प्रत्ययो
भवति ।
सह कृतवान्-- सहकृत्वा, सहकृत्वानौ । सहयुद्धवान् सहयुध्वा, सहयुध्वानौ । राजानं कृतवान् राजकृत्वा । राजानं योषितवान्- राजयुध्वा । युधिरन्तर्भूतण्यर्थः सकर्मकः । कर्मण इत्येव ? राज्ञा युद्धवान् । प्रत्ययान्तरबाधनार्थोऽयमप्यारम्भः ।। १६७॥
अनोर्जनेर्डः ।। ५. १. १६८ ॥
कर्मणः परानुपूर्वाज्जनेभू तेऽर्थे वर्तमानाडुः प्रत्ययो भवति ।
पुमांसमनुजातः - पुमनुजः, स्त्र्यनुजः, आत्मानुजः । श्रनुपूर्वो जनिर्जननोपसर्जनायां प्राप्तौ वर्तमानः सकर्मकः ।। १६८ ।।
न्या० स० - अनोर्जने- पुमनुज - इति पुमांसमनुजननेन प्राप्तवानित्यर्थः । जननोपसर्जनायामिति - जननमुपसर्जनं यस्याः ।
सप्तम्याः ।। ५. १. १६६ ॥
सप्तम्यन्तान्नाम्नः पराद् भूतेऽर्थे जमेड भवति ।
उपसरे जात:- उपसरजः, मन्दुरायां मन्दुरे वा जात:- मन्दुरजः, अप्सु जातम् - अप्सुजम्, अब्जम् ॥१६६॥