________________
२४४ ]
बृहद्वृत्ति- लघुन्याससंवलिते [ पाद - १, सूत्र - १६२-१६४
पश्चाद् वृत्रेण सम्बन्धः । ॐ मध्येऽववादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति क्विपाडणादिरेव बाध्यते न क्त-क्तवत् ।
४- तथा ब्रह्मादिभ्यो हन्तेर्भूत एव काले क्विप् नान्यस्मिन् ब्रह्माणं हन्ति हनिष्यति वा-ब्रह्मघात इत्यणेव । तदेतत् सर्व बहुलाधिकाराल्लभ्यते ।। १६१ ।।
न्या० स० ब्रह्मभू० - कालमात्रे वा विवविति कया रोत्या मधोर्हन्ता कोऽर्थः ? मधुहननयोग्य : काल इति वाक्ये विवपि मधुहेत्यादि । ब्रह्मघात इति - 'ब्रह्मादिभ्यः ' ५-१-८५ इति टक् प्रसङ्गेऽपि बहुलमण् ।
कृगः सुपुण्य-पाप-कर्म-मन्त्र- पदात् ।। ५. १. १६२ ॥
सुशब्दात पुण्यादिभ्यश्च कर्मभ्यः परात् करोतेर्भू तेऽर्थे वर्तमानात् क्विप् भवति । सुष्ठु कृतवान् सुकृत्, पुण्यं कृतवान्- पुण्यकृत् पापकृत् कर्मकृत्, मन्त्रकृत्, पदकृत् । इदमपि नियमार्थं वचनम् । त्रिविधश्वात्र नियमः ।
,
१ - एभ्यः कृग एव भूते क्विप् नान्यस्माद् धातो:- मन्त्रमधीतवान्- मन्त्राध्याय इत्यता एव भवन्ति न क्विप् । 'मन्त्रवित्, पापनुत्' इत्यादौ तु भूताविवक्षायां क्विप् ।
२ - तथा एभ्यः कृगो भूत एव क्विप् । इह न भवति कर्म करोति करिष्यति वाकर्मकार:, मन्त्रकारः, पदकारः ।
३- तथा एभ्यः परात् कृगो भूते क्विबेव मान्यः प्रत्यय:, तेन कर्म कृतवान्- कर्मकार इति न भवति । एभ्य एव भूते कृगः क्विमिति धातुनियमो नेष्यते, तेन 'शास्त्रकृत्, तीर्थकृत्, वृत्तिकृत् सूत्रकृत् भाष्यकृत्' इत्यादयः सिद्धाः ।। १६२ ।।
•
न्या० स०- कृग सुपुण्य इत्यक्ता एवेति- अण् च क्तौ चाणक्ताः क्तवतुर्दशित एव क्तप्रत्ययस्तु आरम्भे यः क्तः स एव गृह्यते, अन्यस्य भावकर्मणोविधानात् 'गत्यर्थ' ५-१-११ इत्यस्य तु सकर्मकत्वादप्राप्तिः ।
सोमात् सुगः ।। ५.१.१६३ ॥
सोमात् कर्मणः परात् सुनोतेर्भू तेऽर्थे वर्तमानात् क्विप् भवति ।
सोमं सुतवान्- सोमसुत् । श्रयमपि नियमार्थो योग: । चतुविधश्चात्रापि नियमः । १- सोमादेवेति नियमात् सुरां सुतवान् सुरासाब इत्यण् । सुरासुदिति भूताविवक्षायाम् । २- सुग एवेति नियमात् सोमं पीतवान् सोमपा इति विच् । ३ भूत एवेति नियमात् - सोमं सुनोति सोष्यति वा सोमसाव इत्यण् । ४- क्विवेवेति नियमात् सोमं सुतवान् इत्यण् न भवति ।। १६३॥
अग्नेशचेः ॥ ५. १. १६४ ॥
अग्नेः कर्मणः पराच्चिनोतेर्भू तेऽर्थे वर्तमानात् क्विप् भवति ।