________________
पाद-१, सूत्र-१५९-१६१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्याय:
[२४३
___ अग्निष्टोमेनेष्टवान्-अग्निष्टोमयाजी, भवति हि सामान्यविशेषयोर्भेदविवक्षायां सामान्ययजो विशेषयजिरग्निष्टोमः करणम् । भूत इति किम् ? अग्निष्टोमेन यजते । करणादिति किम् ? गुरूनिष्टवान् ॥१५॥
निन्द्य व्याप्यादिन विक्रियः ॥ ५. १. १५६ ॥ __ व्याप्यानाम्नः परात् विपूर्वात् क्रोणाते तेऽर्थे वर्तमानात कुत्सिते कतरीन् प्रत्ययो भवति ।
___ सोमं विक्रीतवान्-सोमविक्रयी, घृतविक्रयो, तैलविक्रयो ब्राह्मणः । निन्ध इति किम् ! धान्यविक्रायः, घृतविक्रायः, तैलविक्रायो वणिक । व्याप्यादिति किम् ? ग्रामे विकोतवान् । भावेऽलन्तस्य मत्वर्थीयेनेना सिध्यति कुत्सायामण्बाधनाथं वचनम् ॥१५९।।
हनो णिन् ॥ ५. १. १६०॥ व्याप्यानाम्नः पराद् भूतेऽर्थे वर्तमानात् हन्तेनिन्धे कर्तरि णिन् प्रत्ययो भवति ।
पितृव्यं हतवान्-पितृव्यघाती, मातुलघाती । असरूपत्वादणपि-पितृव्यघातः, मातुलघातः । केचित् त्वसरूपविधि नेच्छन्ति । निन्द्य इत्येव ? शत्रु हतवान् शत्रुघातः, चौरघातः । व्याप्यादित्येव ?-दण्डेन हतवान् । घनन्तान्मत्वोंयेनेना सिद्ध भूतकुत्साम्यामन्यत्र शत्रुधातीत्यादौ मत्वर्थीय निवृत्त्यर्थं वचनम् । अन्यत्रापीच्छत्यन्यः । एवं पूर्वसूत्रेऽपि ।। १६०॥
___न्या० स०-हनो णि-मत्वर्थोयनिवृत्त्यर्थमिति-हननं घातः घत्रि पश्चान्मत्वर्थीयो न। एवं पूर्वसूत्रेऽपीति-पूर्वसूत्रेऽनुक्तमपि द्वितीयमिदं फलं द्रष्टव्यम्, इह तु इदमेव ततोऽसरूपत्वादणत्रानुज्ञातः, घान्तादित्याद्यारम्येच्छत्यन्य इति पर्यन्तं पूर्वसूत्रेऽपीत्यत्र ज्ञेयम् ।
ब्रह्म-भ्र ण-वृत्रात् क्विप् ॥ ५. १. १६१ ॥ ब्रह्मादिभ्यः कर्मभ्यः पराद् भूतेऽर्थे वर्तमानाद्धन्तेः क्विप् प्रत्ययो भवति ।
ब्रह्माणं हतवान्-ब्रह्महा, भ्रूणहा, वृत्रहा । "क्विप्" ( ५-१-१४८ ) इत्यनेनैव सिद्धे नियमार्थं वचनम्, चतुर्विधश्चात्र नियमः ।
१-ब्रह्मादिभ्य एव हन्तेभू ते क्विप् नान्यस्माव-पुरुषं हतवान्-पुरुषघातः । 'मधुहा, अहिहा, गोत्रहा, हिमहा, तमोपहा, असुरहा, आखुहा' इत्यादिषु वर्तमानमविष्यतोः कालमात्र वा "क्विप् । (६-१-१४८) इत्यनेनैव क्विप् ।
२-तथा ब्रह्मादिभ्यो हन्तेरेव भूते नान्यस्माद् धातोः क्विप्-ब्रह्माधीतवान् ब्रह्माध्याय इत्यणेव न तु क्विप् । ब्रह्मविदादयस्तु भूताविवक्षायाम् ।।
३-तथा ब्रह्मादिभ्यो हन्ते ते विबेव नान्यः प्रत्यय:-ब्रह्माणं हतवान्-ब्रह्महा इति क्विबेव भवति नाण-णिनौ । ब्रह्मघ्नादयस्तु कालसामान्येन 'ब्रह्मादिभ्यः" (५.१-८५) इति टक् प्रत्यये साधवः । कथं 'वृत्रस्य हन्तुः कुलिशम्' इति ? केवलादेव हन्तेस्तृच