________________
२२८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-८८-६४
राजघः ॥ ५. १. ८८॥
राज्ञः कर्मणः पराद्धन्तेष्टक् प्रत्ययो घादेशश्च निपात्यते । राजानं हन्तिराजघः ||८||
पाणिघ-ताडघौ शिल्पिनि ॥ ५. १.८१ ॥
पाणि-ताडाभ्यां कर्मभ्यां पराद्धन्तेः शिल्पिनि कर्तरि टक् घादेशश्च निपात्यते । पाणि हन्ति पाणिघः, ताडवः शिल्पी। पाणिना ताडेन च हन्तीति करणादपि केचित् । शिल्पिनीति किम् ? पाणिघातः, ताडघातः ।।८।।
कुक्ष्यात्मोदरात् भृगः खिः ॥ ५. १. १० ॥
एभ्यः कर्मभ्यः परात् भृगो धातोः खि: प्रत्ययो भवति । कुक्षिमेव विति-कुक्षिभरिः, प्रात्मभरिः, उदरंभरिः । उदरात केविदेवेच्छन्ति । खकारो मागमार्थः ।।१०।।
अर्होऽच ॥ ५. १. ११॥
कर्मणः परावर्हतेरच् प्रत्ययो भवति, प्रणोऽपवादः । पूजामर्हति-पूजाह', साधुः, . पूजाऱ्या प्रतिमा ॥६१|| धनु-दण्ड-रसरु लागला-कुशष्टि-यष्टि शक्ति-तोमर घटाद ग्रहः
॥५. १.१२॥ एभ्यः कर्मभ्यः पराद् अहेरच् प्रत्ययो भवति । धनु हाति-धनुर्ग्रहः, दण्डग्रहः, सरुग्रहः, लाङ्गलग्रहः, अङ्कुशग्रहः, ऋष्टिग्रहः यष्टि ग्रहः, शक्ति ग्रहः, तोमरग्रहः, घटग्रहः, * नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् * इति-घटीग्रहः । अणपीत्येके-'धनुहिः, दण्डग्राहः' इत्यादि चोदाहरन्ति ।।१२।।
सूत्राद्धारणे ॥ ५. १. १३॥
सूत्रं कर्पासादिमयं लक्षणसूत्रं वाऽविशेषेण गृह्यते । सूत्रात कर्मणः परात अहेर्ग्रहणपूर्वके धारणेऽर्थे वर्तमानादच् प्रत्ययो भवति ।
सूत्रं गृह्णाति-सूत्रग्रहः प्राज्ञः सूत्रधारो वा, सूत्रमुपादाय धारयतीत्यर्थः । अन्ये त्ववधारणे एवेच्छन्ति, तन्मते-सूत्रग्रहः प्राज्ञ एवोच्यते । धारण इति किम् ? सूत्रग्राहः, यो हि सूत्रं गृह्णाति न तु धारयति स एवमुच्यते ।।६३॥
न्या० स०-सूत्राद्धारणे-अन्ये त्ववधारण एवेति-तन्मते यः सूत्रं धारयत्येव तत्रैवाच् , सूत्रधारस्तु प्रयोजने एव गृह्णाति न तु सर्वकालम् ।
आयुधादिभ्यो धृगोऽदण्डादेः॥ ५. १. १४ ॥