________________
पाद-१, सूत्र-८३-८७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २२७
कुमार-शीर्षाभ्यां कर्मभ्यां पराद्धन्तेणिन् प्रत्ययो भवति । कुमारं हन्ति-कुमारघाती, शीर्षघाती । अत एव निपातनाच्छिरसः (शीर्षभावः ), शीर्षशब्दोऽकारान्तः प्रकृत्यन्तरं वा । तथा च "शीर्षे स्थितं पृष्ठतः" इति ॥२॥
श्रचित्ते टक ।। ५. १.८३ ॥ कर्मणः पराद्धन्तेरचित्तवति कर्तरि टक् प्रत्ययो भवति ।।
वातं हन्ति-वातघ्नं तेलम्, पित्तघ्नं धृतम्, श्लेष्मघ्नं मधु, रोगघ्नमौषधम्, जायाघ्नाः तिलकालकाः पतिघ्नी पाणिरेखा, सर्वकर्मघ्नी शैलेशी, सुघ्नो नगरम, शतघ्नी आयुधविशेषः, हस्तघ्नो ज्याघा-तत्रो वर्धपट्टः। बहुलाधिकारात सध्नादयः संज्ञायाम् । अचित्त इति किम् ? पापघातो यतिः, चौरघातो राजा, आखुघातो बिडाल:, मत्स्यघातो बकः, सस्यघातो वृषभः ।।८३।।
न्या० स०-प्रचित्ते टक तिलकालका इति-तिलानां तुल्यास्तिलका अलका इवालकास्ते च ते अलकाश्च, येषां लोके मित्र इति प्रसिद्धिः। शैलेशीति-शिलानामीशः शिलेशस्तर येयं निष्प्रकम्पत्वात् ।
जाया-पतेश्चिह्नवति ॥ ५. १.८४ ॥
जाया-पतिभ्यां कर्मभ्यां पराद्धन्तेचिह्नवति कर्तरि टक् भवति । चिह्न शरीरस्थं शुभाशुभसूचकं तिलकालकादि । जायाघ्नो ब्राह्मणः, पतिघ्नी कन्या, अपलक्षणयुगित्यर्थः । चित्तवदर्थ आरम्भः ।।४।।
ब्रह्मादिभ्यः॥ ५. १.८५ ॥
ब्रह्माविभ्यः कर्मभ्यः पराद्धन्तेष्टक् प्रत्ययो भवति । ब्रह्म हम्ति-ब्रह्मघ्नः, कृतघ्नः, शत्रुध्नः, वृत्रघ्नः, भ्रूणघ्नः, बालघ्नः, शशध्नी पक्षिजातिः, गां हन्ति-गोध्नः पातकी। बहुलाधिकारात संप्रदानेऽपि-गां हन्ति यस्मै आगताय दातुस-गोध्नोऽतिथिः । बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति । चित्तवदर्थ प्रारम्भः ।।८५॥
हस्ति-बाहु-कपाटाच्छतो ॥ ५. १.८६ ॥ एम्यः कर्मभ्यः पराद्धन्तेः शक्तौ गम्यमानायां टक् भवति, चितवदर्थ आरम्भः ।
हस्तिनं हन्तु शक्तः-हस्तिघ्नो मनुष्यः, बाहुघ्नो मल्लः, कपाटघ्नश्चौरः । शक्ताविति किम् ? हस्तिनं हन्ति विषेण-हस्तिघ्रातो रसदः ।।८६।।
नगरादगजे ॥ ५. १. ८७॥
नगराव कर्मणः पराद्धन्तेर्गजवजिते कर्तरि टक् भवति, चित्तवदर्थ आरम्भः । नगरघ्नो व्याघ्रः । अगज इति किम् ? नगरघातो हस्ती ॥७॥