________________
२२६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-७७-८२
हितत्वादित्याह-इत्यण् इति । एतत् कुतो लभ्यते । 'गायोऽनुपसर्गाट्टक' ५-१-७४ सूत्रे उपसर्गवर्जनात्, अन्यथा कर्मणः परात् उपसर्गव्यवधाने न प्राप्नोत्येव ।
समः ख्यः॥ ५.१.७७ ॥
कर्मणः परात् संपूर्वात ख्या' इत्येतस्मात् डो भवति । गां संख्याति संचष्टे वागोसंख्यः, पशुसंख्यः । उपसर्गार्थ वचनम् ।।७७ ।
दश्वाङः ॥ ५. १. ७८।।
कर्मणः परादाङपूर्वाद ददाते. 'ख्या' इत्येतस्माच्च डो भवति । दायमादत्ते दायादः, स्त्रियमाचष्टेस्च्याख्यः, प्रियाख्यः । इदमुत्तरं चोपसर्गार्थ वचनम् ।।७।।
प्राज्ज्ञश्च ।। ५. १. ७१ ।।
कर्मणः परात् प्रपूज्जिानातेदारूपाच्च डो भवति । पथिप्रज्ञः, प्रपाप्रदः । इह पूर्वसूत्रे च दारूपं गृह्यते, न संज्ञा ज्ञा-ख्यासाहचर्यात् । पूर्वसूत्रे तु दाग एव ग्रहणं तस्यैवाङा योगात तेन स्तनौ प्रधयति-स्तनप्रधायः ।।७।।
न्या० स०-प्राज्ञश्च ०-दारुपं गृह्यते इति-तेन दांवदेवोरपि ग्रहस्तेन केदारप्रदो भोजनप्रदश्चेति सिद्धम् ।
आशिषि हनः । ५. १.८०॥
आशिषि गम्यमानायां कर्मणः पराद्धन्ते? भवति । शत्रु वध्यात्-शत्रुहः, पापहः, दुःखहः । गतावपीति कश्चित् , क्रोशं हन्ति-क्रोशहः ।।८०॥
क्लेशादिभ्योऽपात् ॥ ५. १. ८१ ।। क्लेशादिभ्यः कर्मभ्यः परादपपूर्वाद्धन्तेर्डो भवति, अनाशीरर्थ आरम्भः ।
क्लेशमपहन्ति-क्लेशापहः, तमोपहः, दुःखापहः, ज्वरापहः, दोपह, दोषापहः, रोगापहः, वातपित्तकफापहः विषाग्निदर्पापहः । बहुवचनाद् यथावर्शनमन्येभ्योऽपि भवति । कथं 'दाघाट:, चार्वाघाट:? घटतेरणि संज्ञायां भविष्यति । चारु आहन्तीति-चार्वाधातो हन्तेरेव । दार्वाधातोऽपि तहि स्याव , असंज्ञायामिष्यत एव । एवमसंज्ञायां संपूर्वाभ्यां घटि-हनिभ्या-'वर्णसंघाटः, वर्णसंघातः, पदसंघाटः, पदसंघातः' इत्यादि सिद्धम्, हन्तेरेव वा पृषोदरादित्वात् वर्णविकारः । ८१।।
__ न्या० स०-क्लेशादिभ्यो-कथं दार्वाघाट इत्यादि-दारावाङो हन्तेरण अन्तस्य च ट: संज्ञायां चारौ तु ड इति परेषां सूत्रद्वयमत्र तत् स्वमते कथमित्याह-घटतेरणीति-दारुः सारसः, चारुस्तु जीवभेदस्तमाघटते संबध्नाति ।
कुमार-शीर्षाण्णिन् ।। ५. १.८२ ॥