________________
पाद-१, सूत्र-७४-७६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२२५
आपूर्वश्चरि:-कल्याणाचारः, कल्याणाचारा । सुखप्रतीक्षः, सुखप्रतीक्षा, बहुक्षमः, बहुक्षमा। प्रल्घान्तः शीलादिभिर्बहुव्रीहौ सति धर्मशीलादयः सिध्यन्ति, अण्बाधनार्थ तु वचनम् , अणि हि स्त्रियां ङो: स्यात्, तथा च धर्मशीलोत्याद्यनिष्टं रूपं स्यात् । एवंप्रायेषु च बहुव्रीह्याश्रयणे अम्भोऽतिगमेति स्याद, अम्भोतिगामी चेष्यते । कामीति ण्यन्तस्योपादानादण्यन्तादणेव-पयस्कामीति, ण्यन्तस्य तु णे सति-पयःकामेति भवति । अत एव च ण्यन्तनिर्देशादण्यन्तनिर्देशे "अतः कृ-कमि कंस० (२-३.५) इत्यादौ केवलस्यैव कमेग्रहणम् , तेन-णे सति सकारादेशो न भवति ॥७३।।
न्या० स०-शीलिकामि०-अल्घान्तरिति-ण्यन्तेभ्योऽलि अण्यन्तेभ्यस्तु घत्रि । अम्भोतिगमेति स्यादिति-अतिगम्यते 'युवर्ण' ५-३-२८ इत्यलि बहुव्रीहौ न चैतदिष्यते, स्थिते तु अम्भः कर्म अतिगच्छति 'कर्मणोऽण्' ५-१-७२ ।
गायोऽनुपसर्गाट्टक् ॥ ५. १. ७४ ॥
कर्मणः परादनुपसर्गाद् गायतेष्टक् प्रत्ययो भवति । वकं गायति-वक्रगः, वनगी; सामगः. सामगी। अनुपसर्गादिति किम् ? वक्रसंगायः, खरसंगायः । वक्रादयो गीतविशेषाः । गायतिनिर्देशो गाङ् निवृत्त्यर्थः ॥७४।।
सुरा-शीधोः पिवः ॥ ५. १. ७५ ।।
सुरा-शीधुभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक् भवति । सुरां पिबति-सुरापः, सुरापी; शोधुपः शोधुपी।
सराशीधोरिति किम् ? क्षीरपा बाला । पिब इति किम् ? सुरां पाति-सुरापा। कथं संज्ञायां सुरापा सुरापीति ? पाति-पिबत्योर्भविष्यति । न च धात्वर्थभेदः, संज्ञासु धात्वर्थस्य व्युत्पत्तिमात्रार्थत्वात् ।।७।।
न्या० स०-सुराशीधो०-कथमिति-अत्र ङी विकल्पः कथमित्याशङ्का ।
आतो डोऽहा-वा-मः ।। ५. १.७६ ॥
कर्मणः परादनुपसर्गात् ह्वा-वा-मावजितादाकारान्ताद् धातोर्डः प्रत्ययो भवति । गां ददाति-गोदः, कम्बलदः, पाणित्रम्, अङ्गलित्रम्, ब्रह्मज्यः, वपुर्वीतवान-वपुर्व्यः । अह्वावा-म इति किम् ?स्वर्गह्वायः, तन्तुवायः, धान्यमायः, अणेव । कथं मित्रहः? "क्वचित" ( ५-१-१७१ ) इत्यनेन डः। अनुपसर्गादित्येव ? गोसंदायः, वडवासंवायः । उपसगैरव्यबधानतैवेत्यण ॥७६॥
न्या० स०-आतो डो-अनिद्दिष्टार्थास्त्रिष्वपि कालेषु भवन्तीति वपुर्व्य इत्यत्र भूतेऽपि ङः । तन्तुवाय इति-वातिवायत्योरकर्मकत्वान्नग्रहणम् । धान्यमाय इति-धान्यं माति मिमीते मयते वा। अव्यवधानतैवेति-नन्वणपि ना प्राप्नोति कर्मण उपसर्गेण व्यव