________________
पाद-१, सूत्र-९५-९८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचऽमोध्यायः
[ २२९
दण्डादीन् वजयित्वा आयुधादिभ्यः कर्मभ्यः परात् धगो धातोरच भवति । धनुधरति-धनुर्धरः, शक्तिधरः, चक्रधरः, वज्रधरः, शूलधरः, हलधरः । प्रादिग्रहणाद् भूधरः, जलधरः, विषधरः, शशधरः विद्याधरः, श्रीधरः, जटाधरः, पयोधरः । बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति । अदण्डादेरिति किम् ? दण्डधारः, कुण्डधारः, काण्डधारः, कर्णधारः, सूत्रधारः, छत्रधार ।।४।।
न्या० स०-प्रायुधादि-दण्डादीनां वजनात्तेभ्योऽण् निणिन्ये, अन्यथा युधादिद्वारोऽच् प्रत्ययोऽपि स्यादिति संदेहः स्यात् । .
हगो वयो-ऽनुद्यमे ॥ ५. १.१५॥
कर्मणः पराद्धरतेवयसि अनुद्यमे च गम्यमाने अच् भवति । प्राणिनां कालकृतावस्था वय, उद्यम उत्क्षेपणम्, आकाशस्थस्य वा धारणम्, तदभावोऽनुद्यमः । अस्थिहरः श्वशिशुः, कवचहरः क्षत्रियकुमारः । अनुधमे-अंशहरो दायावः, मनोहरः प्रासादः, मनोहरा माला । संज्ञायां टोऽपीति कश्चित-मनोहरी विषहरी मणिः । वयो-ऽनुद्यम इति किम् ? भारहारः । वयसि क्रियमाण: संभाव्यमानो वोद्यम उच्यमानो वयो गमयतीति उद्यमार्थ वयोग्रहणम् ।। ९५।।
न्या० स०-हगो वयो-क्रियमाण इति-क्रियमाणतया संभाव्यमान इत्यर्थः । संभाव्यमानो वेति-अकुर्वन्नपि, ततः कर्मास्मिन् , कर्मणि अयं शक्त इत्येवं संभाव्यमान इत्यर्थः । वयोग्रहणमिति-नन्वत्र वयोग्रहणं किमर्थम् ? इत्याह-उद्यमार्थमिति, अयमर्थो यत्र वयस्तत्रोद्यमेऽसत्यपि भवतीत्यर्थ , यथा कवचहर इत्यादौ ।
आङः शीले ।। ५. १. १६ ॥
कर्मणः परादाङपूर्वाद्धरतेः शोले गम्यमानेऽच् प्रत्ययो भवति, शीलं स्वाभाविकी प्रवृत्तिः ।
पुष्पाण्याहरतीत्येवंशील:-पुष्पाहरः, फलाहरः, सुखाहरः, पुष्पाद्याहरणे स्वाभाविकी फलनिरपेक्षा वृत्तिरस्येत्यर्थः । आङ इति किम् ? पुष्पाणि हर्ता, तृन् । शील इति किम् ? पुष्पाहारः । 'सुखाहरः' इत्यशीलेऽनुमेऽर्थे पूर्वेणाच् । लिहादिप्रपञ्चः प्रकरणमिदम् ॥६६॥
न्या० स०-प्राङः शोले-ननु लिहादिगणे एव धातूपपदार्थनियमः क्रियतां, किममीभिः सूत्रः ? इत्याह-लिहादिप्रपञ्च इति ।
दृति नाथात् पशाविः ।। ५. १. १७॥
प्राभ्यां कर्मभ्यां पराद्धरतेः पशो कर्तरि 'इ:' प्रत्ययो भवति । इति हरति-दृतिहरिः श्वा, नाथहरिः सिंहः । पशाविति किम् ? दृतिहारो व्याधः, नाथहारी गन्त्री॥७॥
रजः फले-मलाद ग्रहः ॥ ५. १. १८ ॥