________________
पाद-३, सूत्र-४]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
साध्यत्वेन क्रिया तत्र, धातुरूपनिबन्धना।
सत्वभागस्तु यस्तस्याः, स घनादिनिबन्धनः ।।२।। तत्र सिद्धस्वभावेति- निर्धारणसप्तम्यन्तात् त्रप् , सिद्धसाध्यभेदयोर्मध्ये इत्यर्थः । परितः परिच्छन्नेति-निष्पन्नत्वात् सर्वात्मना ज्ञातेत्यर्थः परिनिष्ठितरूपा वेत्यर्थः ।
सत्वभावमापन्नेति-अयमर्थः पाक इत्यादी प्रकृतिभागः साध्यरूपमर्थमाह प्रत्ययभागस्तु सत्त्वरूपताम् ।
भूतभविष्यदित्यादि-सर्वेषां द्वंद्वपूर्वो बहुव्रीहिः पृथगर्थत्वात् , भूतभविष्यद्वर्त्तमानाश्च ते सदसन्तश्चेति कर्मधारयपूर्वो वा, आदिशब्दात् प्रत्यक्षपरोक्षता ।
विपरिणमते इति--विपरिणमति देवदत्तः पदार्थं स एवं विवक्षते, नाहं विपरिणमामि स्वयमेव विपरिणमते, 'एकधातोः" ३-४-८६ इत्यात्मनेपदं, किरादित्वाच्च क्याभावः एवमपक्षीयते इत्यत्रापि ।
यावत् सिद्धमसिद्धं वेति सिद्धं सत्तादि, असिद्धं तु कटादि । नन्वेवं तहि सत्तायाः साध्यमानता कया रीत्या ? उच्यते,-यथा एकस्मिन् स्थाने पाषाणखण्डं कस्तूरिका चास्ति, ततः कस्तूरिकामाहात्म्यात् पाषाणखण्डमपि सुगन्धि भवत्येवमत्रापि कस्मिश्चिदेकस्मिन् पिण्डे पाकक्रिया सत्ता च विद्यते पाकक्रिया च पूर्वापरीभता ततस्तस्या माहात्म्यात सत्तापि पूर्वापरीभूता भवति इति साध्यमानत्वं किंबहुनाख्यातपदेन उच्यमान: सिद्धभावोऽपि साध्यरूपतां भजति तन्माहात्म्यात् ।
न प्रादिरप्रत्ययः ॥ ३. ३. ४ ॥
'प्रादिश्चाधन्तर्गणः, स धातुः,-धातोरवयवो न भवति-तं व्युदस्य ततः पर एव धातसंज्ञो वेदितव्यः, अप्रत्यय.-न चेत ततः परःप्रत्ययो भवति । अभ्यमनायत, अभिमिमनायिषते, अभिमनाय्य गतः, प्रासादीयत् , प्रासिसादीयिषति, प्रासादोग्य गतः । प्रादिरिति किम् ? अमहापुत्रीयत् । अप्रत्यय इति किम् ? 'औत्सुकायत, उत्सुसुकायिषते, उत्सुकायित्वा । 'अभिमनायादिः प्रत्ययान्तः स प्रादिसमुदायः क्रियार्थ इति तस्मिन् धातुसंज्ञे प्राप्ते प्रादिस्ततः प्रतिषेधेन बहिष्क्रियते, ततश्च तत उत्तर एव धातुरिति तस्याट द्विवचनं च भवति, प्रादेश्वोत्तरेण समास इति क्त्वाया यबादेशः। असंग्रामयत शूर इति नायं सम् प्रादिः, किन्तु धात्ववयवः, यथा-विच्छाद्यवयवो विः, “संग्रामणि युद्ध" इत्यखण्डस्य चुरादौ पाठात् ॥४॥
न्या० स०-न प्रादि०-प्रासादीय्य गत इति-यद्यत्र धातुत्वं स्यात्तदा 'गतिक्वन्य' ३-१-४२ इति समासो न स्यात 'नाम नाम्ना०'३-१-१८ इत्यनवर्तनात, धातत्वे च नामत्वं न स्यात् । उत्सुसुकायते इति 'नाम्नो द्वितीयात् ४-१-७ इति सु इति द्विरुक्तः, 'धुटस्तृतीयः' २-१-७६ इति कृतदस्थानतकारस्य परेऽसत्त्वात् 'न बदनम्' ४-१-५