________________
४]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-३, सूत्र-३
धानान्न धातुसंज्ञा । एतेन क्रियवाभिधेया यस्य स धातुः एवं च कृत्वा, कत्तु मित्यादिषु भावे कृत् प्रत्ययान्तस्यापि न धातुसंज्ञा । कि चात्रान्यदपि उत्तरमस्ति साध्ये अव्ययसंज्ञया धातुसंज्ञाया बाधितत्वात् , 'इकिश्तिवस्वरूपार्थे' ५-३-१३८ इति प्रत्ययान्तस्य सिद्धसाध्ययोरभेदोपचारेण सिद्धरूपत्वात् । कर्त्तव्यं, भूयते इत्यादौ तु भावे त्याद्यन्तस्य क्रियार्थत्वेऽपि न धातुत्वं साहचर्यात् , यतोऽन्येषामलिङ्गसंख्यानामपदसंज्ञकानां धातुसंज्ञाप्रत्ययादि, अत्र तु लिङ्गसंख्यापदसज्ञानां विद्यमानत्वात् ।
शिष्टप्रयोगानुसारित्वादिति-लक्षणात् पार्थक्येन शिष्यन्ते प्रतिपाद्यन्ते इति शिष्टा धातवस्तेषां प्रयोगः पाठस्तदनुसारित्वात् तत्सव्यपेक्षत्वात् ।
अस्य लक्षणस्य क्रियार्थो धातुरित्यस्येत्यर्थः, यद्येवं पाठ एवाऽस्तु किमनेन लक्षणेनेति चेत् ? नैवं, पाठपठितानामपि क्रियार्थानामेव धातुत्वज्ञापनार्थत्वादित्याह-शिष्टज्ञापनायेति-अयमर्थो लक्षणात् पृथक्पठिता अपि त एव शिष्टा धातवो ये क्रियार्थाः, तेन वावाप्रभुतीनां सर्वनामविकल्पाद्यर्थानां पाठाविसंवादित्वेऽपि लक्षणविसंवादित्वादाणपयत्यादीनां तु क्रियार्थत्वेऽपि पाठविसंवादित्वाद्धातुत्वाभावः ।।
अन्वयव्यतिरेकाम्यामिति-अथ कथं प्रकृतिप्रत्ययसमुदायेऽपि प्रकृतेरेव धातुत्वम् ? इत्याह-तथाहि-पचतीति-अत्र पचि: पाके वर्त्तते, पाकशब्देन च सिद्धो भाव उच्यते, साध्याभिधायिनश्च धातुत्वमतः कथमिह धातुत्वम् ? (सत्यं,) अन्यथा वक्तुमशक्यत्वात् . पाकशब्देनापि साध्यो भाव उच्यते साध्यावस्थामनुभूयैव हि सिद्धभावोऽपि भवतीति ।
संसष्टक्रियेति-क्रिया च काल कारकं च क्रियाकालकारकाणि तानि आयो येषां, आदिशब्दादेकत्वादि, संसृष्टाश्च ते क्रियाकालकारकादयश्च ते च ते अनेकार्थाश्च । न एकोऽनेकः, अनेके च ते अर्थाश्च तान् अभिदधातीति ।
शब्दो हीयते इति जहाति शब्दं देवदत्तः, स एवं विवक्षते, नाहं जहामि किंतु स्वयमेव हीयते।
व्यापारविशेष इति-पचतीत्यादिषु हि तदस्ति इति धातुत्वं यतः, पचतीत्युक्ते, न पठति, न गच्छति, न किंचिदन्यद्व्यापारान्तरं विधत्ते किंतु पाकरूपविशेष एव गम्यत इति । ननु तथापि अस्त्यादीनां न प्राप्नोति क्रियात्वं सत्ताया व्यापारविशेषाभावात् , यतः सर्वोऽपि धात्वर्थोऽस्त्यादिभिर्व्याप्त: ? इत्यतो युक्तिमाह
व्यापारश्चेत्यादिः-अयमर्थोऽस्त्येवैतत् तथापि पाकादेविशेषात् सत्ताया अपि विशेषो ज्ञायते स्वरूपेण, न हि स एव पाक: सैव सत्तेति, यथाऽनेकघटाच्छादक एक: पटस्तेष्वनुष्यूतोऽपि तेभ्यो भिद्यते, न हि स एव पट: स एव घट इति, एवं कृतेऽपि तथा ।
भावे घनीति-यथा क्रियाशब्दस्य न करोत्यर्थः प्रवृत्तिनिमित्तं किन्तु कारकव्यापारविशेषस्तथा भावशब्दे च न भवत्यर्थः प्रवृत्तिनिमित्तमपि तु कारकव्यापार एवेत्यर्थः, यदाह हरि:
आख्यातशब्दे भागाभ्यां, साध्यसाधनवतिता। प्रकल्पिता यथाशास्त्रे, स घत्रादिष्वपि क्रमः ।।१।।