________________
पाद-३, सूत्र-३]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
साध्यमानावस्था पूर्वापरोभूतावयवा भूत-भविष्यद्-वर्तमान-सदसवाद्यनेकावयवरूपाssख्यातपदैरुच्यते, यदाह-"पूर्वापरीभूतं भावमाख्यातेनाचष्टे" यथा च पञ्चतीत्यत्र पूर्वापरीभावस्तद्वदेव 'जायते, अस्ति, विपरिणमते, वर्धते, प्रपक्षीयते, विनश्यति, भवति, श्वेतते, संयुज्यते, समवैति' इत्यादावपि साध्यत्वाभिधामेन क्रमरूपाश्रयणात् क्रियाध्यपदेशः सिद्धः, तदुक्तम्
"यावत् सिद्धमसिद्धं वा, साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात् , तत् क्रियेति प्रतीयते।" ॥३॥ न्या० स०-क्रियार्थो०-पूर्वावयवयोगात्पूर्वाऽपरावयवयोगादऽपरा पूर्वा चासावपरा च पूर्वापरा अपूर्वापरा पूर्वापरा भूता पूर्वापरीभूता, तत्र पूर्वापरयो योरपि प्रथमोक्तत्वेन 'पूर्वापरप्रथम' ३-१-१०३ इति शब्दपरस्पर्धनाऽपरशब्दस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वात् पूर्वस्य पूर्वनिपातः, तत्र पूर्वोऽवयवोऽधिश्रयणादिरपर उदकसेकादिस्तौ द्वावपि भागौ पाकक्रियायां स्तः, सा ह्यधिश्रयणोदकसेचनादि रूपा।
साध्यमानरूपेति-साध्यमानं साधनायत्तं रूपं स्वरूपं यस्याः सा क्रिया, यथापचति कः ? चैत्र , किम् ? ओदनम् , कै: ? काष्ठः क्व ? स्थाल्यां, कुतः ? कुशूलात् , कस्मै ? मैत्रायेति भावना।
ननु पचतीत्यादिष्वस्तु क्रियात्वं भवतीत्यादिषु तु सत्ताया नित्यत्वेन साध्यमानत्वाऽभावात् तदभावे च पूर्वापरविभागावात् तदभावे च क्रियार्थत्वाभावे न प्राप्नोति धातुसंज्ञा ? . सत्यं, आधेयभेदेन सत्तापि पूर्वापरीभूता साध्यमानरूपा, यथा-सैव देवदत्तसत्ता क्वचिद्गमनयुक्ता क्वचिद्भोजनयुक्ता क्वचिद्पठनयुक्ता, एवमनेकधा योजना कार्या ।
आयादिप्रत्ययान्तेति-ननु क्रियार्थे धातौ शिश्ये इत्यादिषु भावे तदर्थप्रत्ययस्यापि धातुत्वप्रसङ्गः । भावप्रत्ययो हि क्रियार्थ एव उत्पद्यते ततश्च 'आत् संध्यक्षर', ४-२-१ इत्या. त्वप्रसङ्गः । आत्वे हि धातोविहितमनैमित्तिकं चेति । अतः प्रत्ययप्रतिषेधार्थ क्रियाविशेषक प्रथमग्रहणं कर्त्तव्यं व्याख्येयं च प्रथमं यः क्रियामाहेति, प्राथम्यं चात्राभिधानापेक्षं ग्राह्य, तेन किं सिद्धं ? अन्येनानभिहितां क्रियां य आह स धातुः । अयमर्थोऽन्येभ्यः क्रियाभिधायिभ्यो यः प्रथममाहेति । शिश्ये, इत्यत्र तु शीत्यनेनाभिहितां क्रियां प्रत्यय आहेति, न तस्य धातुसंज्ञाप्रवृत्तिः । शब्दार्थापेक्षया प्राथम्यं घटते तत्र शब्दतश्चेत्पुत्रीयतीत्यादावपि न प्राप्नोति, नात्र प्रथममुच्चार्यमाणः पुत्रशब्दः क्रियामाह । अर्थतश्चेत् पुत्रीयतीत्यादौ प्रथमा आद्या क्रिया अप्रथेनापि क्येनाभिधीयते न तु द्वितीयेति सिध्यति धातुसंज्ञा ।
ननु प्रथमग्रहणे सति चिकीर्षतीत्यत्रापि न प्राप्नोति धातुसंज्ञा, यतोऽत्रापि सन् प्रत्ययो न प्रथम क्रियामाह अपि तु कृइत्यनेनाभिहिताम् ? नैवं, करोत्यर्थोपसर्जनामिच्छामन्येन अनभिहितां सन्प्रत्यय आहेति स्यादेव धातुसंज्ञेति । अत्रोच्यते,-यथात्र प्रथमग्रहणे कृते 'शिश्ये' इत्यत्र धातुसंज्ञा न भवति तथा स्वाथिकानामायादीनामपि न प्राप्नोति । गोपायति, कामयत इत्यादिषु अत्रापि अभिहिताया एव क्रियाया आयादिभिरभिहितत्वात्, तस्मादेवं व्याख्येयं-क्रियामेव प्राधान्येन योऽभिधत्ते स क्रियाभिधायी धातुसंज्ञः । गोपायतीत्यादावपि तदस्तीति सिद्धा घातुसंज्ञा । 'शिश्ये' इत्यादौ तु भूतानद्यतन परोक्षत्वादेरभि