________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-२-३
गुणोऽरेदोत् ॥ ३. ३. २ ॥
'अर् एत् ओत्' इत्येते प्रत्येक गुणसंज्ञा भवन्ति । करोति, कर्तव्यम् , चेता, चेयम् , स्तोता, स्तोतव्यम् । गुणप्रदेशाः-"नामिनो गुणोऽक्ङिति" [४. ३. १] इत्येवमादयः ।।२।।
न्या० स०-गुणोऽरे०-गुणशब्दस्य पूर्वनिपातो मङ्गलस्यैवातिशय प्रतिपादनार्थः । क्रियार्थो धातुः ॥ ३. ३. ३॥
कृतिः क्रिया, प्रवृत्तिापार इति यावत् , पूर्वापरीभूता साध्यमान रुपा साऽर्थोऽभिधेयं यस्य स शब्दो धातुसंज्ञो भवति । एधते, अत्ति, दीव्यति, सुनोति, तुदति, रुणद्धि, तनोति, क्रोणाति, सहति । आयादिप्रत्ययान्तानामपि क्रियार्थत्वात् धातुत्वम्-गोपायति, कामयते, ऋतीयते, जुगुप्सते, कण्डूयति, पापच्यते, चोरयति, कारयति, चिकोर्षति, पुत्रकाम्यति, पुत्रीयति, अश्वति, श्येनायते, हस्तयते, मुण्डयति । एवं जु-स्तम्भूचलुम्पादीनामपिजवनः, स्तम्नाति, चुलुम्पांचकार, प्रेङ्खोलयति ।
शिष्टप्रयोगानुसारित्वादस्य लक्षणस्याणपयत्यादिनिवृत्तिः, शिष्ट ज्ञापनाय चेदं लक्षणम् , एतदविसंवादेन च शिष्टा ज्ञायन्त इति ।
अन्वय-व्यतिरेकाभ्यां च धातोः क्रियार्थत्वावगमः, तथाहि-पचतीत्यादौ धातुप्रत्ययसमदाये संसष्टक्रियाकालकारकाद्यनेकार्थाभिधायिनि प्रयज्यमाने धातोरेव क्रियार्थत्वमवगम्यतेऽन्वय-व्यतिरेकाभ्यां नेतरेषाम् । पचतीति प्रयोगे द्वयं श्रूयते-'पच' इति प्रकृतिः, 'अतिः' इति च प्रत्ययः, अर्थोऽपि कश्चिद् गम्यते विक्लित्तिःकर्तृत्वमेकत्वम; पठतीत्युक्ते कश्चित् शब्दो होयते कश्चिदुपजायते कश्चिदन्वयी, 'पच' शब्दो हीयते पठ्' शब्द उपजायते 'अति' शब्दोऽन्वयी, अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी, विक्लित्तिायते पठिरुपजायते कर्तृवमेकत्वं चान्वयी; तेन मन्यामहे-यः शब्दो हीयते तस्यासवर्थों योऽर्थो हीयते, यश्च शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते, यश्च शब्दोऽन्वयो तस्यासावर्थो योऽन्वयीति ।
ननु च कृतिः करोत्यर्थः किया, तत्र युक्तं पचादीनां किं करोति ? पचति, कि करोति ? पठतीति करोतीत्यर्थभितत्वात् क्रियात्वम् , अस्ति विद्यते भवतीनां तु न युक्तम् , नहि भवति-किं करोति ? अस्ति भवति विद्यते चेति, तदयुक्तम्-न करोत्यर्थः क्रियाशब्दस्य प्रवृत्तिनिमित्तम् , अपि तहि कारकव्यापारविशेषः, व्यापारश्च व्यापारान्तराद् भिद्यत इत्यस्त्याद्यर्थोऽपि क्रियैव, करोत्यर्थस्तु क्रियाशब्दस्य व्युत्पत्तिनिमित्तमेव; एवं सति क्रियासामान्यवचनाः कृभ्वस्तयः क्रियाविशेषवचनास्तु पचादय इति सिद्धम् । तथा 'भावे घञ्' इत्युक्त्वा 'कारः, पाकः' इत्यादयोप्युदाह्रियन्ते । ‘कियोपपदाद्धातोस्तुम्' इत्युक्त्वा 'योद्धधनुर्भवति, द्रष्टचक्षर्जातम्' इत्याद्यप्युदाहरणं युक्तम् । यदाहः-'यत्रान्यत क्रियापदं न श्रयते तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यते” इति । क्रिया च द्वेधा सिद्ध-साध्यत्वभेदात. तत्र सिद्धस्व. भावोपसंहृतकमा परितः परिच्छिन्ना सत्त्वभावमापन्ना मादिभिरभिधीयते.. यदाह"कृदभिहितो भावो द्रव्यवत् प्रकाशते" इति; तुमादिभिस्तु सत्त्वभावमनापन्नेति विशेषः;