________________
पाद-४, सूत्र-९५-९८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[२०१
अभिधेये, उरोविदारं प्रतिचस्करे नखैः । हत इत्यर्थः। वध इति किम् ? प्रतिकोणं बीजं विक्षिप्तमित्यर्थः । ६४॥
अपाच्चतुष्पात्पक्षिशुनि हृष्टान्नाश्रयार्थे । ४. ४. १५ ॥
अपात्परस्य किरतेश्चतुष्पदि पक्षिणि शुनि च कर्तरि यथासंख्यं हृष्टेऽन्नाथिनि प्राश्रयाथिनि सति सडाविर्भवति । अपस्किरते वृषभो हृष्टः-हर्षाद्विलिख्य तटं विक्षिपतीत्यर्थः, अपस्किरते कुक्कुटो भक्ष्यार्थी-विलिल्यावस्कर विक्षिपत्तीत्यर्थः, अपस्किरते श्वाथ. यार्थी-विलिख्य भस्म विक्षिपतीत्यर्थः ।
अपादिति किम् ? विकिरति वृषमो हृष्टः । एबिति किम् ? अपकिरति वालो धूलि हृष्टः । हृष्टादिष्विति किम् ? अपकिरति हस्ती रजश्चापलेन ॥६॥
न्या० स०-अपाच्च०-हृष्ट इति-'हृषच तुष्टौ' हर्षणं क्तिः हृष्टिरस्यास्ति अभ्रादित्वादः, क्तान्तात्तु इट् स्यात्, हर्षिमप्यूदितं मन्यते नन्दी हपूरित्यपि तुष्ट्यर्थो वाऽनेकार्थ
स्वात् ।
वौ विकिरो वा ॥ ४. ४.१६ ॥
वो पक्षिण्यभिधेये विष्किर इति वा स्सट् निपात्यते । विकिरतीति विकिरः पक्षिविशेषः, विकिरोऽपि स एव । अन्ये तु पक्षिणोऽन्यत्र विकिरशम्दस्यापि प्रयोगो नास्तीत्याहुः ॥६६॥
प्रात्तुम्पतेर्गवि ॥ ४. ४. १७॥
प्रात्परस्य तुम्प इत्येतस्य धातोर्गवि कर्तरि स्सडाविर्भवति । प्रस्तुम्पति गौः, प्रस्तुम्पति वत्सो मातरम्, प्रस्तुम्पको वत्सः । गचीति किम् ? प्रतुम्पति बनस्पतिः । अन्ये तु प्रात्परस्य तुम्पतिशम्बस्य गधि अमिषेये सडाविर्भवति । प्रस्तुम्पतिगौः, अम्पतिरन्यः । तुम्पतिधातोस्तु सट् न भवतीति मन्यन्ते । एकेतु प्रात्तुम्पतेः कपोल्यारम्भन्ते । कपि हिसायो कच्पर्याये वा कपि समासान्त इति च व्याचक्षते, प्रस्तुम्पति वत्सो, मातरम् हिनस्तीत्यर्थ । प्रगतस्तुम्पोऽस्मात्प्रस्तुम्पको देशः ।।७।।
न्या० स०-प्रात्तुम्पते०-प्रस्तुम्पति वत्स इति,-वत्सोऽपि गौरेव विशेषस्य सामान्यात्मकत्वात् । तुम्पतिशम्बस्येति-तुम्पतेस्तिवन्तस्यैवाऽनुकरणं मन्यते इत्यर्थः । 'इकिश्तिव' ५-३-१३८ इति तिव्प्रत्ययान्तं वा, ततः प्रकृष्टा स्तुम्पतिहिंसा यस्याऽसौ प्रस्तुम्पतिगौः।
कपोत्यारम्भन्ते इति-कपेः सौत्रात् कम्पेर्वा कम्पनं 'क्रुत्सम्पद' ५-३-११४ इति क्विप् । 'लङ्गिकम्प्योः ' ४.२-४७ इति न लुक् ।
उदितः स्वरान्नोन्तः ॥ ४. ४. १८ ॥