________________
२०२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद- ४, सूत्र - ९९ - १०२
उदितो धातोः स्वरात्परो नोऽन्तोऽवयवो भवति । नन्दति, निन्दति, नन्दितः, निन्दितः कुण्डिता, हुण्डिता । अयं चोपदेशावस्थायामेव भवत्यनैमित्तिकत्वात् तेन कुण्डा हुण्डेत्यादौ 'क्तेटो गुरोर्व्यञ्जनात् ' ( ५-३ - १०६) इत्यप्रत्ययः सिद्धो भवति ॥ ६८ ॥
मुचादि - तृफ-टफ - गुफ-शुभोम्भः शे ॥ ४. ४. ११ ॥
एषां स्वरानोऽन्तो भवति शे परे । मुञ्चति, मुञ्चते, सिञ्चति, सिञ्चते, बिन्दति, विन्दते, लुम्पति लुम्पते, लिम्पति लिम्पते, कृन्तति, विन्दति, पिशति, तृफ- तृम्फति, हफम्फति, गुफ-गुम्फति, शुभ-शुम्भति, उभ्- उम्भति ।
तृफादयः सनकारा अनकाराश्च तुदादिषु पठ्यन्ते, तत्र तृम्फादीनां शे नस्य लुक् इति तृफादीनां नविधानम् । विधानसामर्थ्यात्त्वस्य लोपो न भवतीति तृफति तृम्फतीत्यादि द्वैरूप्यं सिद्धम् । एषामिति किम् ? तुदति । श इति किम् ? मोक्ता, मोक्तुम् । मुचलती, षिचींत्, विलृती, लुप्ती, लिपींत्, कृतैत्, खिदंत्, पिशत्, वृत् इति मुचादिः ॥ ६६ ॥
जभः स्वरे ॥ ४. ४. १०० ॥
जम्भतेः स्वरादौ प्रत्यये परे नोऽन्तो भवति । जम्भयति, जम्भकः, साधुजम्भी, जम्भंजम्भम्, जम्भो वर्तते । स्वर इति किम् ? जभ्यम्, जंजब्धि ॥१००॥
न्या० स०-जभः स्वरे - जम्भयतीति यभंजभ मैथुने जभुङ जभैङ, जृभुङ गात्रविनामे, जम्भन्तं जम्भमानं वा प्रयुङ्क्ते णिग् । जंजब्धीति - ईति जंजभीति न तु नागमः, * आगमशासनमनित्यम् इति न्यायात् ।
र इटि तु परोक्षायामेव ॥ ४. ४. १०१ ॥
रध्यतेः स्वरात्परः स्वरादौ प्रत्यये परेऽन्तो नो भवति इटि तु इडादौ तु प्रत्यये पक्षायामेव । रन्धयति, रन्धकः, साघुरन्धी । रन्धरन्धम् । रन्धो वर्तते । इटि तु परोक्षायाम् । ररन्धिव, ररन्धिम, रेधिवान् । अत्र नस्य लुक् ।
परोक्षायामेवेति किम् ? रक्षिता, रधिष्यति । एवकारो विपरीत नियमनिरासार्थः, नेह नियमो न भवति । ररन्ध । ररन्धतुः । ररन्धुः । स्वर इत्येव । रद्वा ॥ १०१ ॥
न्या० स०- रध इटि तु० - विपरीत नियमनिरासार्थ इति नियमस्तु पूर्वसूत्रात्स्वराधिकारे यदत्र इट्ग्रहणं करोति तस्मादेव सिद्ध इति ।
रभोsपरोक्षाशवि ॥ ४. ४. १०२ ॥
रभतेः स्वरात्परः परोक्षाशव्वजते स्वरादौ प्रत्यये परे नोऽन्तो भवति । आरम्भयति, प्रारम्भकः, साध्वारम्भी, प्रारम्भमारम्भम्, आरम्भो वर्तते । अपरोक्षाशवीति किम् ? आरेमे, आरभते । स्वर इत्येव, आरब्धा ।। १०२ ।।