________________
२०० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-९२-६४
संचस्कार, परिचस्कार, समस्करोत्, पर्यस्करोत्, समस्कार्षीत् , पर्यस्कार्षीत् , समचिस्करत. पर्यचिस्करत, कथं संकृतिः, गर्गादिपाठात् । संकरः पा भविष्यति । संकार इत्यत्र किरतिरेव, बहुलाधिकारात घन । स्सडिति द्विसकारनिर्देशात् समचिस्करदित्यादौ षो न भवति । परिष्करोतीत्यादौ तु 'असोङसिवूस हस्सटाम्' (२-३४६ ) इत्यादिवचनाद्भवति, टकारः ‘स्सटि समः' (१-३-१२) इत्यत्र विशेषणार्थः ।।१।
न्या० स०-संपरेः कृणः-संस्करोतीति-कस्यादिरिति व्याख्यानादऽनुस्वारस्यापि व्यञ्जनत्वे 'धुटो धुटि' १-३-४८ इति प्रवर्त्तते इति न्यासः ।।
उपाभूषा-समवाय-प्रतियत्न-विकार-वाक्याच्यारे ।। ४. ४. १२ ॥
उपात्परस्य कृगो भूषादिष्वर्थेष्वादिः सट भवति, भूषालंकारः तत्र-कन्यामुपस्करोति भूषयति इत्यर्थः । समवायः समुदायः, तत्र न उपस्कृतं समुदितमित्यर्थः; पुनर्यत्नः प्रतियत्नः, सतोऽर्थस्य संबन्धाय वृद्धये तादवस्थ्याय वा समीहा प्रतियत्नः, एधोदकस्योपस्कुरुते । काण्डगुणस्योपस्कुरुते । तत्र प्रतियतत इत्यर्थः । प्रकृतेरन्यथाभावो विकारः,तत्र-उपस्कृतं भुङ्क्ते, उपस्कृतं गच्छति, विकृतमित्यर्थः । गम्यमानार्थस्य वाक्यैकदेशस्य स्वरूपेणोपादानं वाक्याध्याहारः, तत्र-उपस्कृतं जल्पति, उपस्कृतमधीते। सोपस्कराणि सूत्राणि सवाक्याध्याहाराणीत्यर्थः । एण्विति किम ? उपकरोति ।।१२।।
न्या० स०-उपाद्भूषा०- सतोऽर्थस्वेति-सतोऽसंबद्धस्य सबन्धाय लाभाय लब्धस्य वा वद्धये आधिक्याय वृद्धस्य वा तादवस्थ्याय सा पूर्वावस्थाऽस्य तदवस्थाऽस्य तदवस्थ वस्तु तस्य भावः । अपायपरिहारेणाऽभिमतावस्थासंरक्षणम् ।
उपस्कृतं भुङ्क्ते इति-संसत्कं धान्यं भुङक्ते इत्यर्थः । वाक्याध्याहार इति-गम्यमानार्थानि पदानि सुखार्थमुच्चार्यन्ते, यथा 'ज्ञः' ३-३-८२ इति सूत्रे कर्मण्यसति गम्यमानमपि स्वरूपेण उपादीयते, यथा वा 'किरो लवने' ४-४-६३ इति उपादिति स्वरूपेण गृह्यते ।
किरो लवने ॥ ४. ४. १३॥
उपात्परस्य किरतेः सडादिर्भवति लवने लवनविषयश्चेत्तदर्थो भवति । उपस्कोर्य मद्रका लुनन्ति, उपस्कारं मद्रका लुनन्ति--विक्षिप्य लुनन्तीत्यर्थः । 'उपात् किरो लवने' (५-४-७२) इति णम्।।
लवन इति किम् ? उपकिरति पुष्पम् ।। ६३ ॥
न्या स०-किरो लवने-किर इति इनिर्देश: क्रयादिकनिवृत्त्यर्थः, न तु इरादेशे सति कार्यार्थस्तेन वाक्येऽपि स्सट् भवति ।
प्रतेश्च वधे ॥ ४. ४.१४॥
प्रतेरूपाच्च परस्य किरतेर्वधे हिसायां विषयेऽभिधेये वा सडादिर्भवति । प्रतिस्कोणे ह ते वृषल भूयात् , उपस्कीणं ह ते वृषल भूयात्-हिंसानुबन्धी विक्षेपस्ते भूयात् इत्यर्थः ।