________________
पदा-४, सूत्र-८७-६१ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १९९
आलोपपक्षे इति-दरिद्रोऽद्यतन्यां वा' ४-३-७६ इत्यनेनाऽद्यतनीविषयेऽपीत्यर्थः । ईशीडः सेध्वेस्वध्वमोः॥ ४. ४. ८७॥
आभ्यां परयोवर्तमानासेध्वयोः पञ्चमीस्वध्वमोश्चाविरिङ् भवति । ईश्,-ईशिषे, ईशिध्वे, ईशिष्व, ईशिध्वम् , ईड्-ईडिरे, ईडिध्वे, ईडिष्व, ईडिध्वम् । समुदायद्वयापेक्षं द्विवचनम् , तेन स्वसहचरितस्य ध्वमो ग्रहणात् ह्यस्तनीध्वमि न भवति । ईशीडो: ऐड्दवम् । परोक्षासेध्वयोरामा भाव्यमिति वर्तमानासेध्वयोग्रहणम् । वचनमेवो यथासंख्यनिवृत्त्यर्थः ।। ८७ ।।
न्या० स०-ईशीड:-ऐड्ढ्वमिति-ईशीडोस्तनीध्वमि 'यजसृज' २-१-८७ इति षत्वे तवर्गस्य' १-३-६० इति ढत्वे 'तृतोयस्तृतीय०' १-३-४६ इति षस्य डत्वे इति 'स्वरादेस्तासु' ४-४-३१ इति वृद्धिः ।
रुत्पञ्चकाच्छिदयः॥ ४. ४. ८८ ॥
रुदिस्वपि-अनिश्वसिजक्षिलक्षणानुत्पचकात्परस्य व्यञ्जनादेः शितोऽयकारादेरादिरिड् भवति । रोदिति, रुदितः, स्वपिति, स्वपितः, प्राणिति, प्राणितः, श्वसिति, स्वसितः, जक्षिति, जक्षितः । पञ्चकादिति किम् ? जागति । शिविति किम् ? स्वप्ता। व्यञ्जनादेरित्येष,-रुदन्ति । अयिति किम् ? रुचात् , स्वप्यात् ॥८॥
दिस्योरीट ॥ ४. ४. ८१ ॥
रुत्पश्चकात्परयोदिस्योः शितोरादिरीट् भवति । अरोदीत् , अरोदीः, अस्वपीत् , अस्वपीः, प्राणीत् , प्राणोः, अश्वसीत् , अश्वसीः, प्रजक्षीत् , अजक्षी: । दिस्योरिति किम् ? रोदिति । दिसाहचर्यात्सिा स्तन्या एव, तेन रोदिषि ॥९॥
अदश्वाट् ॥ ४. ४.१०॥
प्रत्ते रुत्पञ्चकाच्चपरयोदिस्योः शितोरादिरिट् भवति । आदत् , आदः, अरोवत् , अरोदः, अस्वपत् , अस्वपः, प्राणत् , प्राणः, अश्वसत् , अश्वसः, अजक्षत्, प्रजक्षः । दिस्योरित्येव ? अत्ति, अत्सि, रोदिति, रोविषि ।।१०।।
संपरेः कृगः स्सटू ॥ ४. ४.११ ॥
संपरिभ्यां परस्य कृग आदिः स्सट् भवति । संस्करोति कन्याम् , भूषयतीत्यर्थः। संस्कृतं वचनम् , संस्कारो वासना, तत्र नः संस्कृतं समुक्तिमित्यर्थः। परिष्करोति कन्याम् । परिष्कृतम् , परिष्कारः, तत्र न: परिष्कृतम् । भूषासमवाययोरेवेच्छन्त्येके, तन्मतेऽन्यत्र परिकृतम् । पूर्व धातुरुपसर्गेण संबध्यते पश्चात्सायनेनेति विर्वचनावडागमाच्च पूर्व स्सडेव भवति।