________________
१९८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-८४-८६
न्या० स०-गमहनविदल०-विदेग्रहणार्थ इति-अथ विद इत्युक्तेऽपि अदाद्यनदाद्योरिति न्यायात् लाभार्थस्यैव ग्रहणं भविष्यति सत्ताविचारार्थयोरनादित्वेऽप्यात्मनेपदित्वात् क्वसोरऽसंभवात् , नैवं,-निरनुबन्धपरिभाषया तौदादिकस्य ग्रहणाऽसंभवादुभे ह्येते वचने परस्परविरोधिनी नैवाऽत्र प्रवर्तते, तस्माद्येन प्रकारेण निविशङ्क लाभार्थस्य ग्रहणमुपपद्यते स प्रकारो वृत्तौ दर्शित इति । अथ विशिना तौदादिकेन साहचर्याल्लाभार्थस्यैव ग्रहणं भविष्यति किम्लकारकरणेन ? नैवं, यथा विशिना साहचर्य तथा हन्तिनापि साहचर्यशङ्का स्यात्ततश्चाऽदादेरेव ग्रहः स्यात् ।
सिचोऽजेः॥ ४. ४. ८४ ॥
अञ्जः परस्य सिच प्रादिरिड् भवति । प्राजीत , आजिष्टाम् , प्राजिषुः । सिच इति किम् ? अङ्क्ता, अजिता । औदित्त्वाद्विकल्पे प्राप्ते नित्यार्थ वचनम् ।।८४।।
धूगसुस्तोः परस्मै ॥ ४. ४. ८५ ॥
एभ्यः परस्य सिच आदिरिड् भवति । परस्मैपदे परत: । धग-अधावीत्, प्रधाविष्टाम् , अधाविषुः । सु इति सुमात्रस्य ग्रहणम् । असावीत्, प्रसाविष्टाम् , असाविषुः, स्तु-अस्तावीत , प्रस्ताविष्टाम् , अस्ताविषुः ।
परस्मा इति किम् ? अघोष्ट, अधविष्ट, असोष्ट, अस्तोष्ट, धूगो विकल्पे सुस्तुभ्यां च प्रतिषेधे प्राप्ते वचनम् ।।८।।
न्या० स०-धूगसुस्तो०-असोष्टेति-सुमात्रस्येत्युक्तेऽपि धूगृ इत्यस्यायं प्रयोगः, सुं प्रसवैश्वर्ययोरित्यस्य तु आत्मनेपदं न स्यात् कर्त्तरि, भावकर्मणोस्तु संभवेऽपि त्रिच् स्यात् ततश्चाऽसावि इति प्रयोगः स्यात् ।
यमिरमिनम्यातः सोऽन्तश्च ॥ ४. ४. ८६ ॥
यमिरमिनमिभ्य प्रादन्तेभ्यश्च धातुभ्यः परस्य परस्मैपदविषयस्य सिच आदिरिड भवति एषां च सोऽन्तो भवति । अयंसीत् , अयंसिष्टाम् , अयंसिषुः, व्यरंसीत् , व्यरंसिष्टाम् , व्यरंसिषुः, अनंसीत् , अनंसिष्टाम् । अनंसिषुः ।।
एभ्यो दिस्योः सिच इविधे वृद्धिप्रतिषेधः प्रयोजनम् । आदन्त,-अयासीत् , अयासिष्टाम् , अयासिषुः, अग्लासीत् , अग्लासिष्टाम् , अग्लासिषुः, अदरिद्रासीत् , प्रदरिद्रासिष्टाम् , अदरिद्रासिषुः, आलोपपक्षे,-अदरिद्रीत् , अदरिद्रिष्टाम् , अदरिद्रिषुः । परस्मा इत्येव ? आयंस्त, उपायंस्त, परंस्त, अनंस्तदण्डः स्वयमेव, अमास्त धान्यं चैत्रः।८६।
न्या० स०-यमिरमि०-सोन्तो भवतीति-अन्तग्रहात् 'षष्ठया अन्त्यस्य' ७-४-१०६ इति न प्रवर्तते । किञ्चान्तग्रहाभावेऽस्य प्रत्ययत्वं स्यात्ततोऽदरिद्रासीदित्यादौ 'स्ताद्यशितः' ४-४-३२ इत्यनेन सकारस्यादावषीट् स्यात् , दिस्योः परयोः सिचादाविविधानस्य किं फलमित्याह-वृद्धिप्रतिषेध इति-व्यञ्जनानामऽनिटि' ४-३-४५ इति प्राप्ताया इत्यर्थः ।