________________
पाद-४, सूत्र-८२-८३ ] श्री सिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १९७
प्राप्ते हि स विकल्पः, एषां तु प्रतिषिद्धत्वात्प्राप्तिर्नास्ति । ववृषे इत्यत्र तु 'स्ताद्यशितः'(४-४-३२ ) इत्यादिनापि न भवति । ऋवर्णश्यूर्णगः कितः' (४-४-५८ ) इति प्रतिषेधात् ॥८॥
घसेकस्वरातः कसोः॥ ४.४.८२ ॥
घसेरेकस्वरादादन्ताच्च धातोः परस्य परोक्षायाः कसोराविरिट् भवति । घस् - जक्षिवान् , एकस्वर-आदिवान्, प्राशिवान् । द्वित्वदीर्घत्वयोः कृतयोरेकस्वरत्वम्-ऊचिवान्, अनूचिवान् । रवृति दीर्घत्वे चैकस्वरत्वम् । शेकिवान , पेचिवान् , उपसे दिवान् । इणोऽर्तेश्न द्विर्वचने कृतेऽपि समानदीर्घत्वे अरादेशे च सत्येकस्वरसद्भावेनेट: प्राप्तिसद्भावात् इट नित्य एवेति पूर्वमेव भवति । तेन ईयिवान् , समीयिवान् , आरिवान् । आव-पपिवान् , ययिवान् , तस्थिवान् , जग्लिवान् ।।
घसेकस्वरात इति किम् ? विभिद्वान् , चिच्छिद्वान् , बभूवान् , उपशुश्रुवान् , नित्यत्वात् द्वित्वे कृतेऽनेकस्वरत्वम् । विहितविशेषणं चेह नाश्रीयते । क्वसोरिति किम् ? बिभिदिव, विभिदिम। वमयोनियमो न भवति । घस्याग्रहणमनेकस्वरार्थम् । इटि हि सत्याकारलोप उपान्त्यलोपश्च भवति । दरिद्रातेस्त्वामा भवितव्यम् । दरिद्रांचकृवान् । पूर्वेणैव सिद्ध नियमाथं वचनम् । एभ्य एव क्वसोरादिरिट् भवति नान्येभ्य इति ॥८२॥ - न्या० स०-घसेकस्वरा०-अरादेशे च सति-इटोनित्यत्वभावनार्थमित्थं प्रक्रिया दशिता न त्वेवं रूपसिद्धिविधीयते, यतोऽवर्णस्येत्यरं बाधित्वाऽल्पाश्रितत्वेन इवर्णादेरिति रत्वमेव ।,
इट् नित्य एवेतीति-द्वित्वमपि कृताऽकृतप्रसङ्गित्वेन नित्यं किं त्विट् परश्चेति तयोः स्पर्द्धः परत्वात्पूर्वमिडेव । ईयिवानिति-ऐत् इयाय अगात् वेयिवदिति साधुः ।
आरिवानिति-आर क्वसुः अनेनेट् , द्वित्वे 'ऋतोऽत्' ४-१-३८, 'अस्यादेशः' ४-१-६८ इत्यात्वम् । एकस्य स्थाने भवन् अल्पाश्रित इत्यवर्णस्येत्यरं बाधित्वा 'इवर्णादेः' १-२-२१ इति रत्वादेश एव । विहितविशेषणमिति-कुतो हेतोः घसग्रहणात्, अन्यथा विहितविशेषणत्वे एकस्वरत्वात् घस इट सिद्ध एव । दरिद्राञ्चक्लवानिति-'वत्तस्याम्' १-५-३४ इत्यव्ययत्वे 'अव्ययस्य' ३-२-७ इति सेलु पि 'तौ मुमः' १-३-१४ इत्यनुस्वारः सिद्धः, अन्यथा 'म्नाम्' १-३-३९ इत्यन्त्य एव स्यात् ।
नियमार्थमिति-विपरीतनियमस्तु न भवति घसादीनामनुस्वारेत्करणात् , तद्धि अनिडर्थं तच्च क्वसोरेवेत्यनेनैव नियमेन सिद्धम् ।
गम-हन-विद्ल विश-दृशो वा ॥ ४. ४. ८३॥
एभ्यः परस्य क्वसोरादिरिट वा भवति । गम्,-जग्मिवान् । जगन्वान् , हनजनिवान् , जघन्वान् , विद्ल -विविदिवान , विविद्वान् , विश्-विविशिवान् , विविश्वान, दृश्-दशिवान् , ददृश्वान् , लकारो लाभार्थस्य विदेग्रहणार्थः, तेन ज्ञानार्थस्य विविद्वानित्येव भवति । सत्ताविचारणार्थयोस्त्वात्मनेपदित्वात् क्वसुस्त्येिव ।।३।।