________________
१९४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-४, सूत्र-७२-७५
(४-४.-६३) इति अनेनैव नित्यमिप्रतिषेधे सिद्ध योगविभागो यदुपाविभाषा तदुपाधेः प्रतिषेध इति न्यायज्ञापनार्थम् , तेन विदक् ज्ञाने विदितः, । विदितवान् , हषितः, हषितवान् , तुष्ट इत्यर्थः, इत्यादि सिद्धम् ।। ७१ ॥
न्या० स० आदितः-योगविभाग इति-आदितो नवा भावारम्भे इत्येक एव क्रियतां किं योगविभागेनेति ? तदुपाधेरिति-अयमर्थः 'नवा भावारम्भे' ४-४-७२ इत्यनेन भावारम्भविवक्षायां विभाषा इति यदा कर्मणि कर्तरि वा विवक्ष्यते क्तस्तदा 'वेटोऽपतः' ४-४-६२ इत्यनेनापि निषेधो न स्यात् इत्यस्य पृथगारम्भः । विदित इति 'गमहनविद्ल' ४-४-८३ इत्यनेन विद्लुती इत्यस्यैव वेट्त्वं न विदक् इत्यस्येत्यतो नित्यमिट , न वाच्यं 'गमहन' ४-४-८३ इत्यत्र विद्ल इति सानुबन्धोपादानादेव विदकित्यस्य न भविष्यतीति, यतो नाऽनुबन्धकृतानीति न्यायादनुबन्धवशाद् वैरूप्यं नानास्वरत्वं भिन्नवणत्वं च न. भवतीति ।
नवा भावारम्भे ॥ ४. ४. ७२ ॥
आरम्भ आदिक्रिया, प्रादितो धातो वे आरम्भे च विहितयोः क्तयोरादिरिड् वा न भवति । मिन्नमनेन, मेदितमनेन, प्रमिन्नः, प्रमेदितः. प्रमिन्नवान , प्रमेदितवान् । आदित इत्येव ? विदितमनेन, प्रविदितः, प्रविदितवान् ।
भावारम्भ इति किम् ? मिन्नः, मिन्नवान् । पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ।७२। शकः कर्मणि ॥ ४. ४. ७३ ।।
शकेर्धातोः कर्मणि विहितयोः क्तयोरादिरिड वा न भवति । शक्तः शकितो वा घटः कर्तु चैत्रेण, कर्मणि क्तवतुर्नास्तीति नोदाह्रियते। कर्मणीति किम् ? शक्तः कटं कर्तुम् चंत्रः ।। ७३ ।।
णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट छन्न-ज्ञप्तम् ॥ ४. ४.७४ ॥ ___णौ सति दमादीनां क्तान्तानां दान्तादयो वा निपात्यन्ते । दम्,-दान्तः दमितः, शम्-शान्तः, शमितः, पूरै-पूर्णः, पूरितः, एषु णिलुग निपात्यते । दास,-दस्तः, वासितः, स्पश्-स्पष्टः, स्पाशितः, छद्, छन्नः, छादितः, एषु ह्रस्वश्च । ज्ञा,-ज्ञप्तः, ज्ञापितः, संज्ञपितः, संज्ञप्तः, प्रत्र क्वचिद्भस्वश्च इडभावा सर्वत्र ।।७४।।
न्या० स०-गौ दान्तशान्त०-स्पष्ट इति-पषी बाधने इत्यस्य स्थाने स्पशीति केचित् पठन्ति । स्पशिः सौत्रो वा स्पशन्तं प्रयुङक्ते णिग् स्पशिण ग्रहणे इति चुरादि । अत्र क्वचिदिति-क्वचिदिति कोऽर्थः ? ज्ञप्त इत्यत्र मारणाद्यर्थानामऽभावेऽपि ह्रस्व इत्यर्थः, अभावश्च तेषां पाक्षिके ज्ञापित इत्यत्र ह्रस्वाऽभावदर्शनान्निश्चीयते ।
श्वस-जप-वम-रुष-वर-संघुषास्वनामः ॥ ४. ४.७५ ॥ एभ्यः परयोः क्तयोराबिरिड् वा भवति । श्वस्तः, श्वसितः, प्रस्वस्तः, प्रश्वसितः,