________________
पाद-४, सूत्र-७६–७८ ] श्री सिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १९५
आश्वस्तः, श्राश्वसितः, श्राश्वस्तवान्, आश्वसितवान्, विश्वस्तः, विश्वसितः, विश्वस्तवान्, विश्वसितवान् । व्याभ्यामेव केचिद्विकल्पमिच्छन्ति । तन्मते - श्वसितः श्वसितवान्, विश्वसितः, विश्वसितवान्, उच्छ्वसितः, उच्छ्वसितवान् ।
प्राविभ्यो नित्यमिनिषेध इत्यन्ये । प्रश्वस्तः, आश्वस्तः, विश्वस्तः । श्वसे: कर्तर्ययं निषेधो भावेऽधिकरणे च नित्यमेवेट - श्वसितं निश्वसितमिति केचित् । जप् जप्तः, जप्तवान्, जपितः, जपितवान् वम्, - वान्तः, वान्तवान् वमितः वमितवान् । जपिवभ्यो नित्यमिट् निषेधः जप्त, जप्तवान् वान्तः, वान्तवान् इत्यन्ये । रुष्, - रुष्टः, रुष्टवान्, रुषितः, रुषितवान्, वेट्स्वानुषेनित्यं प्रतिषेधे प्राप्ते वचनम् । त्वर् तूर्णः, तूर्णवान् त्वरितः, त्वरितवान्, संघुष्- संघुष्टं, संघुषितं वाक्यम् । संघुष्टौ संघुषितौ दम्यौ, संघुष्टवान् संघुषितवान् वाक्यम्, आस्वन्- आस्वान्तः, आस्वनितश्चैत्रः । संघुषास्वनिभ्यां परत्वात् अयमेव विकल्पः । तेनाविशब्दनेऽपि संघुष्टा रज्जुः । संघुषिता रज्जुः मनस्यपि, आस्वान्तं मनः, आस्वनितं मन इति भवति । अम् - अभ्यान्तः, अभ्यान्तवान्, अभ्यमितः अभ्यमितवान् ॥७५॥
,
न्या० स०- श्वसजप ० - अयमेव विकल्प इति न तु 'घुषेर विशब्दे' ४-४-६८ क्षुब्धविरब्ध' ४-४-७० इत्याभ्यां नित्यं प्रतिषेधः ।
हृषेः केशलोमविस्मयप्रतिघाते ।। ४. ४. ७६ ।।
केशलोक का क्रिया केशलोमशब्देनोच्यते । हृषेः केशादिष्वर्थेषु वर्तमानात्परयोः तयोरादिरिड्वा न भवति । हृष्टाः केशाः, हृषिताः केशाः, हृष्टं हृषितं केशैः, हृष्टानि हृषितानि लोमानि हृष्टं हृषितं लोमभिः, हृष्टः हृषितश्चैत्रः । विस्मत इत्यर्थः । हृष्टा हृषिता दन्ताः प्रतिहता इत्यर्थः । केशादिष्विति किम् ? हृष्टो मंत्र इत्यलीकार्थस्य हृषितश्चैत्रस्तुष्ट्यर्थस्य ।।७६।।
न्या० स०- - हृषेः - केशलोमविषया उद्घषणादिका क्रिया केशलोमशब्देनोच्यत इत्याह- केशलोमेति ।
अर्थ
"
tot
पूजा
अपचितः ॥ ४ ४ ७७ ॥
श्रपपूर्वस्य चायतेः क्तान्तस्येडभावश्चिदेिशश्च वा निपात्यते । अपचितः, अपचायितः, चिनोतिः पूजार्थो नास्तीति इदं निपातनम् ॥७७॥
सृजिदृशिस्कृस्वरात्वतस्तृनित्यानिटस्थवः ।। ४. ४. ७८ ॥
सृजिहरिभ्यां सरसट: कृगः स्वरान्तादका रवतश्व तृचि नित्यानिटो धातोविहितस्य व आदिरिड् वा न भवति ।
सृज्, - सस्रष्ठ, ससर्जिथ, दृश्, - दद्रष्ठ, ददर्शथ, स्कृ, संचस्कंर्थ, संचस्करिथ, स्वरयाथ, यथ, विवेथ, विवयिथ, निनेथ, निनयिथ, जुहोथ, जुहविथ, अत्वत्, - शशक्थ,