________________
पाद-४, सूत्र-७१ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १९३
स्वान्तमिति मनश्चेत्, मनःपर्याय, स्वान्तशब्दः । विषयेष्वनाकुलं मनः स्वान्तमित्यन्ये, अन्यत्र स्वनितो मृदङ्गः, स्वनितं मनसा घट्टितं स्पृष्टमिति यावत , ध्वनेः ध्वान्तमिति तमश्चेत् , तमःपर्यायो ध्वान्तशब्दः, अनालोकं गम्भीर तमो ध्वान्तमित्यन्ये । अन्यत्र ध्वनितं तमसा । ध्वनितो मृदङ्गः । लगेर्लग्नमिति सक्तं चेत् । लगितमन्यत , म्लेच्छेम्लिष्टमिति अस्पष्टं चेत , इत्वमपि निपातनाव , म्लेच्छितमन्यत फणे: फाल्टमिति अनायाससाध्यं चेत् ,-यदआपतमपिष्टमुदकसंपर्कमात्राद्विभक्तरसमौषधं कषायादि तदेवमुच्यते । अग्निना तप्तं यदीषदुष्णं तत्फाण्टमित्यन्ये ।
अन्ये त्वविद्यमानायास: पुरुषोऽन्यो वा सामान्येन फाण्टशब्देनाभिधीयते । फाण्ट, श्चित्रास्त्रपाणय इत्याहुः,-वाहेढिमिति मृशं चेत् , क्रियाविशेषणमेवैतद स्वभावात् , बाढविक्रमा इति तु विस्पष्टपटुवत्समासः, वाहितमन्यत् , परिपूर्वस्य वृहे हेर्वा परिवृढ इति प्रभुश्चेत् ,-हकारनलोपे ढत्वे च निपातनात् । परिवृढः प्रभुः, परिवढय्य गतः, पारिवृती कन्या, अन्यत्र परिवहितं परिवृहितम् । केचित्तु लग्नविरिन्धम्लिष्टफाण्टवाढानि धात्वर्थस्य सक्ताद्यर्थविषयभावमात्रे भवन्तीत्याहुः । तेषां लग्नं सक्तेनेत्याद्यपि भवति । यथा लोम्नि हष्टमिति ।। ७० ।।
न्या० स०-क्षुब्धविरिब्ध०-गत इति वाऽर्थ इति-अन्तभूतण्यर्थत्वात् गमित इत्यर्थः । क्षुब्धा गिरिनदीति-मथिता मथ्यमाना सती क्षोभं गमिता वेत्यर्थः । मन्थपर्यायो भवतीतितृतीयव्याख्याने मन्थस्य कोऽर्थः ? सक्तोः क्षुब्ध इति पर्यायः, तुरीये तु मन्थस्य सक्तोविशेषणं क्षुब्ध इति ।
क्षभितं समुद्रणेति-अत्र मन्थनं वा मन्थ इति द्वितीयमपि व्याख्यानं न घटते, यतस्तत्र मन्थनं विलोडनं, प्रस्तुते तु संचलनमात्रम् । क्षुमितं मन्थेनेति-अत्र मन्थशब्देन मन्थानक उच्यते । ध्वान्तमिति-ध्वनन्त्यत्राऽपश्यन्तः प्राहरिका इति 'अद्यर्थाच्चाधारे ५-१-१२ इति क्तः, ध्वन्यते स्म हेयतयेति कर्मणि वा क्तः । म्लेच्छितमिति-म्लेच्छत्यव्यक्त भवति स्म व्याप्ये वा क्तः, कूटोच्चारितमित्यर्थः । चित्रास्त्रपाणय इति-चित्रास्त्राणि पाणिषु येषां 'न सप्तमीन्द्वादिभ्यश्च' ३-१-१६५ इति पाणिशब्दस्य न प्राग निपातः ।
बाढविक्रमा इति-यद्यऽयं क्रियाविशेषणं तत्कथमऽत्र विक्रमाभिधायी बाढशब्द: ? इत्याशङ्कायामाह-विस्पष्ट पटुवदिति-यथा तत्र क्रियाविशेषणेन समास्तथाऽत्रापि बाढशब्देन क्रियाविशेषणेन सः ।
हकार न लोपेति-अत्रापि हलोपनि पाताऽभावे पारिवढीत्यर्थः । लोम्नि हष्टमिति-यथा लोमविषये हृष्टं निपात्यते प्रयोगश्च लोमभिः हृष्टमिति तथाऽत्रापीत्यर्थः ।
आदितः ॥ ४. ४. ७१ ॥ प्राकारानुबन्धाद्धातोः परयोः क्तयोरादिरिट न भवति ।
जिमिदा-मिन्नः, मिन्नवान् , शिश्विदा-क्षिण्णः, विषण्णवान् , शिविदा-स्विनः, स्विन्नवान्, शिवता-श्वित्तः, श्वित्तवान्, आदितां धातूनां भावारम्भ वेटस्वादन्यत्र 'वेटोऽपतः'