________________
१९२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-६६-७०
प्रतिषेधात् ज्ञाप्यते घुषेविशब्दनार्थस्य अनित्यश्चुराणिजिति, तेनायमपि प्रयोग उपपन्नो भवति ।
_ 'महीपालवचः श्रुत्वा जुधुषुः पुष्यमारणवाः' स्वाभिप्रायं नाना शब्दराविष्कृतवन्त इत्यर्थः ॥६॥
न्या० स०-घुषेरवि-अत एव विशब्देनेति-ननु घुष शब्दे इत्यस्यैव विशब्दने चुरादित्वाणिचि सत्यऽनेकस्वरत्वात्प्रतिषेधो न स्यात् किं वजनेन ? इत्याह-अनित्येति ।
बलिस्थूले दृढः ॥ ४. ४. ६१ ॥
बलिनि स्थूले चार्थे दृहेदृ"हेर्वा तान्तस्य दृढ इति निपात्यते । इडभावः ततस्य ढत्वं धातुहनयोर्लोपश्च निपातनात् । दृढो बली स्थलो वा, परिदृढय्य गतः, पारिदृढी कन्या, बलिस्थूल इति किम् ? दृहितम् , हितम् ।।६९।।
न्या० स०-बलिस्थले०-परिद्रढय्य गत इति परिदृढमाचष्टे णिज् पृथुमृदु' ७-४-३९ इति ऋतो रः, परिद्रढनं पूर्व क्त्वा 'लघोर्यपि' ४-३-८६ इत्यऽय् । नन्वत्र हलोपनिपातनं किमर्थं यावता 'भ्वादेर्दादेर्घः' २-१-८३ इति घस्य बाधके 'हो धुट्' २-१-८२ इति ढत्वे निपात्यमाने सर्व सिध्यति ? न ढस्य परेऽसत्त्वावर्णद्वयेन व्यवधाने 'लघोर्यपि' ४-३-८६ इति न स्यात् , वचनाद्धि एकेन वर्णेन व्यवधानमाश्रीयते, किञ्च ढस्याऽसत्त्वे संयोगे पूर्वो गुरुरिति न्यायात् गुरूपान्त्यत्वे पारिदृढीत्यत्र परिदृढस्यापत्यं 'अत इञ्' ६-१-३१ 'अनार्षे' २-४-७८ इति ष्यादेश स्यात् , न तु 'नुतिः ' २-४-७२ इति ङीः ।
तुब्ध-विरिब्ध-स्वान्त-ध्वान्त-लग्न-म्लिष्ट-फाण्ट-बाद-परिवृहं मन्थ
स्वरमनस्तमासक्तास्पष्टानायासभृशप्रभो ॥ ४. ४.७० ॥ क्षब्धादयः क्तान्ता मन्थादिष्वर्थेष यथासंख्यमनिटो निपात्यन्ते । क्षमेर्मन्थेऽर्थे तान्तस्येडभावो निपात्यते । मध्यत इति मन्थः,-कर्मणि घञ् । क्तोऽपि क्षुभेः कर्मण्येव, तत्सामानाधिकरण्यात् । क्षुब्धः समुद्रः मथित इति मध्यमानः संक्षोभं गत इति वार्थः । क्षुब्धा गिरिनदी। मन्थनं वा मन्थः । तस्मिन्नभिधेये क्षुब्धं बल्लवेन । विलोडनं कृतमित्यर्थः । प्रथवा द्रवद्रव्यसंपृक्ताः सक्तवो रूढया मन्थशब्देनोच्यन्ते । तद्व्याभिधाने क्षुब्धशब्दो मन्थपर्यायो भवति । यदा तु क्षोभं प्रवृत्तिनिमित्तीकृत्य मन्थे वर्तते तदा क्षुब्धो मन्थ इति सामानाधिकरण्यम् । संचलितो मन्थ इत्यथः ।
मन्थेऽभिधेय इति किम् ? क्षुभितं समुद्रेण । क्षुभितं मन्थेन, क्षुभित: समुद्रो मन्थेन, अन्यस्तु दध्यादिकं येन मथ्यते स मन्थो मन्थानक इत्याह ।
अमृतं नाम यत्सन्तो मन्त्रजिहेषु जुहति ।
शोभव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णने । इति विपूर्वात्सौत्राद्रिवि रिब्ध इति भवति स्वरो ध्वनिश्चेत् । रेभेर्वा इत्वस्यापि निपातनात्, विरिमितं, विरेभितमन्यत्,-स्वनेः