________________
पाद-४, सूत्र. ६४-६८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १९१
अविदूरेऽभः ॥ ४, ४, ६४ ॥
विदूरमतिविप्रकृष्टम् । ततोऽन्यदविदूरम् । अभिपूर्वादः परयोः क्तयोरविदूरेऽर्थे प्रादिरिट् न भवति । अभ्यर्णम्,-अविदूरमित्यर्थः, अभ्यर्णा सरित् । अभ्यणे शेते, अविदूर इति किम् ? अदितो वृषल: शीतेन । बाधित इत्यर्थः ॥६४॥
न्या० स०-अविदूरेऽमे:-क्तवताऽर्थप्रतीतेरभावान्न दशितम् । वर्तेर्वृत्तं ग्रन्थे ॥ ४. ४. ६५ ॥
वृतेर्ण्यन्तात्वते वृत्तमिति ग्रन्थविषये निपात्यते, गुणाभावेदप्रतिषेधौ णिलुक् च निपातनात् । वृत्तो गुणश्छास्त्रेण । वृत्तं पारायणं चत्रेण । वृतेरन्तर्भूतण्यर्थस्यैतत् सिध्यति । वर्तस्तु ग्रन्थविषये वर्तितमिति प्रयोगनिवृत्त्यर्थं वचनम् । ग्रन्थ इति किम् ? वतितं कुङ्कुमम् । अन्ये तु ग्रन्थेऽपि वर्तितमिति प्रयोगमाद्रियन्त ॥६५॥
न्या० स०-वर्त्तवृत्तम्-णिलुक्चेति-'सेटक्तयोः' ४-३-८४ इति नियमात् 'णेरनिटि' ४-३-८३ इति न प्राप्नोतोत्याह वृत्तो गुण इति-उपचाराद्गुणप्रकरणं गुणः ।
धृषशसः प्रगल्भे ॥ ४. ४. ६६ ॥
प्रगल्भो जितसभः । अविनीत इत्यन्ये । षषिशसिभ्यां परयोः क्तयोरादिः प्रगल्भ एवार्थे इट् न भवति । धृष्टः, विशस्तः,-प्रगल्भ इत्यर्थः । प्रगल्भ इति किम् ? धर्षितः, विशसितः, धषेः 'आदितः' (४-४-७२) इति शसेरप्यूदित्त्वात् 'वेटोऽपतः (४-४-६३) इति प्रतिषेधे सिद्ध नियमार्थ वचनम् । अथ भावारम्भयोनित्यार्थ षषेरुपादानं कस्मान्न भवति ? नैवम्, धृषीवारम्भे स्वभावात प्रगल्भार्थानभिधानात् ॥६६।।
न्या० स०-धषशसः-धृषेरुपादानमिति-नन्वादितां धातूनां 'नवा भावारम्भे' ४-४-७२ इत्यनेन वा इनिषेधेऽत्र । धृषेरुपादानं नित्यमिडभावार्थमिति विधिपरतया किमिति न व्याख्यातमित्याशङ्का ।
कषः कृन्छगहने ॥ ४, ४. ६७॥
कृच्छ दुःखम् तत्कारणं च, गहनं दुरवगाहम् । तयोरर्थयोः कषेः परयोः क्तयोराविरिड्न भवति । कष्टं वर्तते, कष्टोऽग्निः, कष्टानि वनानि । कृच्छगहन इति किम् ? कषितं स्वर्णम् ॥६७॥
घुषेरविशब्दे ॥ ४. ४.६८ ॥
विशब्दनं विशब्दः नाना शब्दनं प्रतिज्ञानं च ततोऽन्यत्रार्थे वर्तमानात घुषेः परयोः क्तयोरादिरिट् न भवति । घुष्टा रज्जुः संबद्धावयवेत्यर्थः, घुष्टवान् अविशब्दन इति किम् ? अवघुषितं वाक्यमाह । नानाशब्दितं प्रतिज्ञातं वा वाक्यं ब्रत इत्यर्थः । अत एव विशब्दन