________________
पाद-४, सूत्र ५६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १८७
शिशृत्सिता, शिशृत्सितव्यम् । कृप,-कल्प्स्यति, प्रकल्प्स्यत् , चिक्लप्सति, चिक्लप्सिता, चिक्लप्सितुम् , चिक्लप्सितव्यम् , कल्प्ता, कल्प्तारौ, कल्प्तारः, कल्प्तासि, कल्प्तास्थः, कल्प्तास्थ, कल्प्तास्मि, कल्प्तास्वः, कल्प्तास्मः । स्यन्दिकृपोरौदिल्लक्षणो विकल्पः परत्वादनेन बाध्यते। अनात्मने इत्येव ? तिता, कल्पितव्यम् । स्यादावप्येषां पाक्षिकत्वात अनात्मनेपदनिमित्तत्वस्य यत्र तन्नास्ति तत्रेड भवत्येव । यतिष्यते, प्रतिष्यत, विवतिषते, विवतिषितुम् , वितिषितव्यम् , अधिष्यते, अधिष्यत, विधिषते, विद्धिषितुम् , विवधिषितव्यम् , शधिष्यते. अधिष्यत, शिधिषते, शिधिषितुम् , शिधिषितव्यम् ।
स्यन्दिकृपोरोदित्त्वाद्विकल्पः । स्यन्त्स्यते, स्यन्दिप्यते, अस्यन्त्स्यत, अस्यन्दिष्यत, सिस्यन्त्सते, सिस्यन्दिषते, सिस्यन्त्सितुम्, सिस्यन्दिषितुम्, कल्प्स्यते, कल्पिष्यते, अकल्प्स्यत, अकल्पिष्यत, चिकृप्सते, चिकल्पिषते चिक्लप्सितुम्, चिकल्पिषितुम्, कल्प्ता, कल्पिता, कल्प्तासे, कल्पितासे, कल्प्ताहे, कल्पिताहे । विवत्सितेवाचरति, विवृत्सित्रीयते इत्यादौ तु पूर्ववत् प्रतिषेधः, एके तु वृद्भ्यः स्यसनोः कृप: श्वस्तन्यां चात्मनेपदाभावे इट्प्रतिषेधमिच्छन्ति । तन्मते,-विवृत्सिता, विवृत्सितुम्, विवृत्सितव्यमित्यादौ अनात्मनेपदनिमित्तस्वाभावपक्षेऽपि इट् न भवति ॥५५।।
न्या० स०-न वृद्भ्यः आत्मनेपदनिमित्तं चेति-नन्वऽमीषामात्मनेपदिनामनात्मनेपदनिमित्तत्वं कथमित्याशङ्कयाह-स्यसनि श्वस्तन्यां चेति-'वृद्भ्यः स्यसनो:' ३-३-४५ 'कृपः श्वस्तन्याम्' ३-३-४६ इति सूत्राभ्यामित्यर्थः ।
स्यादावपीति-स्यसनि श्वस्तन्यां चेत्यर्थः । प्रनात्मनेपदनिमित्तत्वाभावपक्षेपोतिअत्र हि प्रकृतिरात्मनेपदविषया।
एकस्वरा-केचिद्विषिपुषिश्लिषिमात्रादिति-विष्लुकी विषश् श्लिषंच् श्लिष्षु इत्येतेभ्यः । युरुक्ष्विति-शीक्षुसाहचर्यात् यु रु इत्यतयोरादादिकयोर्ग्रहणं न रुङ रोषणे च युग्श् बन्धने इत्येतयोः । स्वरान्ता धातव इति स्वरान्ताः किंविशिष्टाः ये पाठे एकस्वरास्तेऽनुस्वारेत इत्यर्थः ।
एकस्वरादनुस्वारेतः ॥ ४. ४. ५६ ॥ एकस्वरादनुस्वारेतो धातोविहितस्य स्ताद्यशित प्रादिरिट् न भवति ।
पा-पाने, पाता, पातुम् । 'चक्षो वाचि शांग ख्यांग' (४-४-४) आक्शाता, आख्याता, जि,-जेता, जेतुम् , णींग,-नेता, नेतुम् , अजेवी,-प्रवेता, प्रवेतुम, इंङ्को गी,अध्यगीष्ट, श्रृं श्रोता, श्रोतुम् , स्म-स्मर्ता, स्मर्तुम् , शक्लट् शकींच वा,-शक्ता, शक्तुम् । शक्यतेरिटमिच्छन्त्येके । शकिता, वचंक् ब्रू गादेशो वा, वक्ता, वक्तुम् । विचपी,-विवेत्ता, विवेक्तुम् , रिचपी,-रेक्ता, रेक्तुम् , डुपची ,-पक्ता, पक्तुम् , षिचींव , सेक्ता, सेक्तुम् , मुचलन्ती,-मोक्ता, मोक्तुम् , प्रच्छंद,-प्रष्टा, प्रष्टुम् , भ्रस्जीद,-भ्रष्टा, भा, भ्रष्टुम् , भष्टुम् , टु मस्जोंद ,-मङ्क्ता, मङ्क्तुम् , भुजोंत् भुजंप वा, भोक्ता, भोक्तुम् , युजिच् युरॉपी वा, योक्ता, योक्तुम् , यजी-यष्टा, यष्टुम् , जिन , परिष्वङ्क्ता परिष्वङ्क्तुम् ।