________________
१८६ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद-४, सूत्र-५३-५५
न्या० स०-स्नो:-पृथग्योगात् सादेरिति नानुवर्तते, अन्यथा स्नुगमोरिति कुर्यात् । प्रास्नोष्टेति-कर्मकर्तरि प्रयोगः ।
क्रमः ॥ ४. ४.५३ ॥ क्रमः परस्य स्ताद्यशित आदिरिड् भवति प्रात्मनेपदं चेन्न भवति क्रमिष्यति ।
निरक्रमीत , मितासि, चिक्रमिषति, चिकमिषिता, चिकमिषितुम् , प्रक्रमितुम् , प्रक्रमितव्यम् । अनात्मन इत्येव ? प्रक्रस्यते, प्रकंस्यमानः, उपक्रन्स्यते, उपकन्स्यमानः, प्रक्रन्ता, उपक्रन्ता, प्रक्रन्तासे, उपकन्तासे, प्रक्रन्सीष्ट, उपक्रन्सीष्ट, प्राक्रन्स्त, उपाकन्स्त, प्राक्रन्स्यत, उपाक्रन्स्यत, प्रचिक्रन्सते, उपचिक्रन्सते. प्रचिक्रन्सिष्यते, उपचिक्रन्सिष्यते । क्रमितेवाचरति मित्रीयते इति पूर्ववदि भवति । कथं चिक्रन्सया कृत्रिमपत्त्रिपङ्क्तेरित्यत्रेडभाव: । गतानुगतिक एष पाठः। जिघृक्षया कृत्रिमपस्त्रिपङ्क्तेरिति तु अविगान: पाठः ॥५३॥
न्या० स०-क्रमः आत्मनेपदं चेन्न भवतीति तद्विषयादऽविषयाद् वा । निरक्रमीदिति-व्यञ्जनादेः' ४-३-७८ इति न वृद्धिः, 'न शिवजागृ' ४-३-४९ इति निषेधात् ।
प्रकन्तेत्यादिषु-'प्रोपादारम्भे' ३-३-५१ इत्यात्मनेपदम् । गतानुगतिक इतिगतस्यानुगतं गतानुगतं तदत्रास्ति, 'अतोऽनेकस्वरात्' ७-२-६ इक: ।
तुः॥ ४. ४.५४ ॥
अनात्मनेपदविषयात क्रमः परस्य तुस्तृचस्तृनश्च स्ताशित प्रादिरिड् भवति । अनात्मन इति प्रकृतिविशेषणमत्रान्यथा व्यवच्छेद्याभावात् । क्रमिता, निष्क्रमिता । आत्मनेपदविषयश्च कमिः कर्मव्यतिहारवृत्यादिषु प्रोपव्यापूर्वश्च आरम्भादिषु भवति । अनात्मन इत्येव ? व्यतिक्रन्ता, पराकन्ता, प्रकन्ता, उपकन्ता, विक्रन्ता, प्राकन्ता ५४ ॥
न्या० स०-तुः-व्यवच्छेद्यामावादिति-प्रत्ययविशेषणे इत्यर्थः । क्रमितेति-'क्रमोऽनुपसर्गात्' ३-३-४७ इति विकल्पेनात्मनेपदविषयत्वात् क्रन्तव्यपि आरम्भादिष्वितिआदिपदाद् विपूर्वस्य स्वार्थे आङ पूर्वस्य तु ज्योतिरुद्गमे । ...
न वृद्भ्यः ॥ ४. ४. ५५ ॥
वृतूङ् स्यन्दौङ् वृधूङ् शृधूङ् कृपौङ् वृत् । एते पञ्च वृतादयः, वृत्करणं धुतादिवृतादिपरिसमाप्त्यर्थम्, एभ्यः परस्य स्ताशित आदिरिड न भवति । 'अनात्मेनाम्' अनात्मनेपदनिमित्तं चेद्वतादयो न भवन्ति । अनात्मनेपदनिमित्तं च वृतादयः स्यसनि श्वस्तन्यां च कृषिविकल्पेन भवन्ति ।
वृत्,-वस्य॑ति, अवय॑त् , विवृत्सति, विवृत्सिता, विवृत्सितुम्, विवृत्सितव्यम् , विवृत्सा, स्यन्द,-स्यन्त्स्यति, अस्यन्त्स्यत्, सिस्यन्त्सति, सिस्यन्त्सिता, सिस्यन्त्सितुम , सिस्यन्त्सितव्यम् , वृधेव तिवद्रूषाणि । शृथ्, शय॑ति, अशय॑त्, शिशृत्सति, शिशृत्सितुम् ,