________________
पाद-४, सूत्र-५२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१८५
मानः, अगस्यत, समगंस्थत, संगसोष्ट, संजिगंसते, संजीगंसमानः, संजिगंसिष्यते, संजिगंसिष्यमाणः, अधिजिगांसते, अधिजिगांसमानः. अधिजिगांस्यते, अधिजिगांसिष्यते, अधिजिगांसिष्यमाणः, इणिकोजिगांस्यते, संजिगांसते, अधिजिगांस्यते याता। कथं जिगमिषितेवाचरति जिगमिषित्रीयते इति । आत्मनेपदस्य क्यङाश्रितत्वेन बहिरङ्गत्वात , केचित्तु आत्मनेपदविषयस्य गमेरात्मनेपदाभावे सति इटो विकल्पमिच्छन्ति । गम्ल,-संजिगंसिता, संजिगमिषिता, संजिगंसितव्यम् , संजिगमिषितव्यम् । इङ्, अधिजिगांसिता, अधिजिगमिषिता, अधिजिगांसितव्यम, अधिजिगमिषितव्यम् , अनात्मनेपदनिमित्तात्तु गमेनित्यमिटमिच्छन्ति । गमिष्यति, जिगमिषतीति, जिगमिषिता, जिगमिषितुम् , अधिजिगमिषितुम् , अधिजिगमिषितव्यमित्यत्रापि गमेरनात्मनेपदविषयत्वान्नित्यमिड् भवति । तन्मतसंग्रहार्थमावृत्त्या सूत्रद्वयं व्याख्येयम् । गमोऽनात्मने गमोऽनात्मन इति । तत्र पूर्वस्यायमर्थः। गमेः सकारस्यादिरिड् वा भवति आत्मनेपदं चेन्न भवति, वेत्यनुवर्तनीयम् ।
द्वितीयसूत्रे तु अनात्मने इति प्रकृतिविशेषणं व्याख्येयम् , ततश्च गमेरात्मनेपदविषयासकारस्यादिनित्यमिड् भवति । इहानात्मने इति प्रकृतिविशेषणात्पूर्वसूत्रे आत्मनेपदविषयादिति सामर्थ्याल्लभ्यते, एवं च तन्मतसंग्रहः सिद्धो भवति । एके तु परस्मैपदविषयस्यैव गमेरिटमिच्छन्ति नात्मनेपदविषयस्य, तन्मतसंग्रहार्थ तनात्मने इत्यसमस्तं व्याख्येयम् । प्रात्मन इति च प्रकृतिविशेषणम् । एवं च गमेरात्मनेपदविषयात सकारस्यादिरिड् न भवति इति अयमर्थो भवति । तेन संजिगंसिता संजिगंसितव्यम् अधिजिगांसिता व्याकरणस्य अधिजिगांसितव्यम् ॥५१॥
न्या० स०-गमोऽनात्मने-प्रात्मनेपदं चेन्न भवतीति-आत्मनेपदविषयस्याविषयस्य च आत्मनेपदाभावे भवतीति । गंस्यते ग्राम इत्यारभ्य संजिगंसिष्यमाण इति-यावत् गम्लु इत्येतस्य रूपाणि, तत्र निरुपसर्गस्य भावे कर्मणि च आत्मनेपदं सम्पूर्वस्य तु 'समो गमच्छि' २-३-८४ इत्यनेन कर्तरि । कथमिति-जिगमिषित्रीयते इत्यत्र आत्मनेपदे इडsभावः प्राप्नोतीत्याशङक्याह-आत्मनेपदस्येति-केचित्तु आत्मनेपदविषयस्येति सामान्योक्तावऽपि कर्तवैवात्मनेपदविषयता ज्ञेया भावकर्मणोस्तु सर्वेऽपि धातव आत्मनेपदविषया एव इति व्यवच्छेद्य किमपि न स्यात् , आत्मनेपदं चेन्न भवतीति द्वितीयव्याख्यानादिहात्मनेपदविषयादात्मनेपदाऽभावो लभ्यते । प्रकृतिविशेषणं व्याख्येयमिति-पनर्गमग्रहणादऽन्यथा पूर्वसूत्राद् गम इत्य धिकारेणेव सिद्धम् । अयमर्थो भवतीति-प्रथममतविपरीतः ।
स्नोः ।। ४. ४.५२ ॥
स्नोः परस्य स्ताद्यशित आदिरिड् भवति आत्मनेपदं चेन्न भवति । प्रस्नविष्यति, प्रस्नविता प्रस्नवितासि । प्रस्नवितास्मि, प्रस्नवितुम् , प्रस्नवितव्यम् , प्रसुस्नूषतीत्यत्र 'ग्रहगुहश्च सन:' (४-४-६०) इत्यनेनेटप्रतिषेधः । अनात्मने इत्येव ? प्रस्नोष्यते, प्रस्नोध्यमाणः, प्रास्नोप्यत, प्रस्नोषीष्ट, प्रास्नोष्ट, प्रस्नोता, प्रस्नोतासे, प्रस्नोताहे । प्रस्नवितेवाचरति प्रस्नवित्रीयत इत्यत्र त्वात्मनेपदस्य बहिरङ्गत्वात् तदाश्रयः प्रतिषेधो न भवति । स्नौतेरिट सिद्ध एव । प्रतिषेधाभावादात्मनेपद इडनिवृत्त्यर्थं तु वचनम् । एवमुत्तरयोगोऽपीति ।।५२॥