________________
१८४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-४८-५१
ऋस्मिपूङञ्जशौकगृध्रप्रन्छः ॥ ४. ४. ४८ ॥
पृथग्योगाद्वेति निवृत्तम् । एभ्यः परस्य सन प्रादिरिड्भवति । ऋ,-अरिरिषति, स्मि, सिस्मयिषते, पूङ्-पिपविषते. अनुबन्धनिर्देशात्पूगः पुपूषति, पुपूषते, अञ्ज-अजिजिषति, अशौ,-अशिशिषते । अश्नातेस्त्विडस्त्येव । कु-चिकरिषति,-चिकरीषति, गृ-जिगरिषति, जिगरोषति। 'वृतो नवा-( ४-४-३५) इत्यादिना पक्षे दीर्घत्वम् । अन्ये तु व्यवस्थितविभाषयास्येटो दीर्घत्वं नेच्छन्ति । हेङ , आदिदरिषते, धृङ्-प्रादिधरिषते, प्रच्छपिपृच्छिषति । प्रच्छसहचरिताः कगध इत्येते तौदादिकाः, तेन कृणातेश्चिकीर्षति । चिकरिषति, चिकरीषति, गणाते:-जिगीर्षति, जिगरिषति जिगरीषति। धरतेदिधीर्षतीत्येव भवति । ऋस्मिपूधप्रच्छामप्राप्ते शेषाणां विकल्पे प्राप्ते वचनम् ।।४।।
हनृतः स्यस्य ॥ ४. ४. ४१ ॥
हन्तेऋकारान्ताच्च धातोः परस्य स्यस्यादिरिड् भवति । हनिष्यति, अहनिष्यत्, हनिष्यन् , आहनिष्यते, आहनिष्यमाणः, करिष्यति, अकरिष्यत्, करिष्यन् , करिष्यमाणः स्वरिष्यति, अस्वरिष्यत् , स्वरिष्यन् स्वरतेः परत्वाद्विकल्पं बाधित्वा नित्यमिट । तकारनिर्देशादर्तरेव ग्रहणं न भवति ॥४६॥
कृत-चूत-नृत-द-तृदोऽसिचः सादेर्वा ॥ ४. ४.५० ॥
एभ्यः परस्य सिज्वजितस्य सकारादेः स्ताद्यशितः प्रत्ययस्यादिरिडवा भवति । कृतत छेदने,-कृतैप वेष्टने वा, कर्व्यति, प्रकस्य॑त् , चिकृत्सति, कतिष्यति अकतिष्यत् , चितिषति, चत् ,-चय॑ति, अचय॑त् , चिचत्सति, चतिष्यति, अतिष्यत् , चितिषति, नृत-नय॑ति, अनत्य॑त् , निनत्सति, नतिष्यति, अनतिष्यत् , नितिषति, छुद् - छय॑ति, अच्छय॑त् , चिच्छ्रत्सति, छदिष्यति. अच्छदिष्यत् , चिच्छदिषति, तृद्-तस्य॑ति, अतयंत, तितृत्सति, तदिष्यति, अदिष्यत् , तितविर्षात ।
___सादेरिति किम् ? कतिता, चतिता, नतिता, छदिता, तदिता । असिच इति किम् ? अकर्तीत् , अचीत् , अनीत् , अच्छ>त् , अतर्दोत् । प्राप्ते विभाषा |॥५०॥
गमोऽनात्मने ॥ ४. ४. ५१ ॥
गमः परस्य सकारादेस्ताशित आदिरिड् भवति प्रात्मनेपदं चेन्न भवति । गम इति आदेशस्यानादेशस्य च ग्रहणमविशेषात् । गमल. गमिष्यति । अगमिष्यत् । जिगमिषति जिगमिषिता। जिगमिषितुम् । संजिगमिषिता । संजिगमिषितुम् । संजिगमिषितव्यम् । इण् , जिगमिषति प्रामम् , जिगमिषुः, इक् ,-अधिजिगमिषति मातुः अधिजिगमिषुः, इङ्अधिजिगमिषिता शास्त्रस्य, अधिजिगमिषुः, अधिजिगमिषितव्यम् , इडो नेच्छन्त्येके । तन्मते, अधिजिगांसिता, अधिजिगांसुः, अधिजिगांसितव्यमित्येव भवति ।
अनात्मने इति किम् ? गंस्यते ग्रामः, संगस्यते वत्सो मात्रा, गंस्यमानः, संगस्य