________________
पाद-४, सूत्र-४७ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १८३
तादेरिति किम् ? सहिष्यते, लोभिष्यति, एषिष्यति । कश्चित्तु पठति सूत्रम् अशिभृगस्तुशुचिवस्तिभ्यस्तकारादौ वेट । अष्टा, अशिता भर्ता, भरिता, स्तोता, स्तविता, शोक्ता, शोचिता, वस्ता, वसिता, तथा रुनुसुदुभ्योऽपि अपरोक्षायामेवेट् । रोता, रविता, नोता, नविता, सोता, सविता, दोता, दविता । अपरोक्षायामिति किम् ? रुरुविम, नुनुविम, सुसुविम, दुदुविम । तथा विषेर्मूलफलकर्मण्यपरोक्षायामिड्वा । वेष्टा, वेषिता मूलानि वा फलानि वा । अन्यत्र संवेष्टा । अपरोक्षायामिति किम् ? संविविषिमेति ।। ४६॥
न्या० स०-सहलुमे०-अपरोक्षायामेवेडिति-अयमर्थः अमीषां यस्मिन् प्रत्यये इट् विहितः स तस्मिन् वा भवति, परोक्षायां तु ‘स्क्रऽसृभृवृ' ४-४-८१ इति नित्यमेव । रवितेति-रुक्रुङोऽविशेषेण ग्रहः । सवितेति-अत्र सुं प्रसवैइत्यऽषोपदेश एव गृह्यते, अन्यथा व्यावृत्तिदर्शिते सुसुविमेति प्रयोगे कृतत्वात्षत्वं स्यात् । इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपतिवृदरिद्रः सनः
॥४. ४.४७॥ इवन्तेभ्य ऋधभ्रस्जदम्भश्रियु-ऊणुभरतिज्ञपिसनितनिपतिवृभ्य ऋकारान्तेभ्यो दरिद्रातेश्च परस्य सन आदिरिड्वा भवति । इवन्त,-दुषति, दिदेविषति, सुस्यूषति, सिसेविषति, ऋध ,-ईसति, अदिधिषति, भ्रस्ज,-विभ्रक्षति, बिभर्भति, विजिषति, बिभ्रजिषति, दम्म,-धिप्सति, धीप्सति, दिवम्भिवति, श्रि,-शिश्रीषति, शिश्रयिषति, यु,-युयूषति, यियविषति, ऊर्गु,-प्रोणुनूषति, प्रोणुनुविषति, प्रोणुनविषति भर,-बुमूर्षति, बिमरिषति । शनिर्देशो यड्लुपो बिभर्तश्च निवृत्त्यर्थः । बुमूर्षति, बिभर्तेरपीच्छन्त्येके । इडभावपक्षे गुणमपि । बिभर्षति, बिभरिषति । तन्मतसंग्रहार्थं कृतगुणस्य भृगो निर्देशः, तेन इडभावपक्षेऽपि गुणो भवति । जप , जीप्सति, जिज्ञपयिषति, ज्ञपीति कृतह्रस्वस्योपादानात् ज्ञापेजिज्ञापयिषतीत्येव भवति ।
सनीति सनते: सनोतेश्च ग्रहणम् । सिषासति, सिसनिषति, तन्,-तितंसति, तितांसति, तितनिषति, पत्-पित्सति, पिपतिषति, वृ इति वृगवृडोर्ग्रहणम् । प्राववर्षति, प्राविवरिषति, प्राविवरीषति, वर्षते विवरिषते, विवरीषते, ऋदन्त-तितीर्षति, तितरिषति, तितरीषति, प्रातिस्तीर्षति, प्रातिस्तरिषति, आतिस्तरीषति । चिकीर्षतीत्यत्र तु लाक्ष. णिकत्वान्न भवति । दरिद्रा,-दिदरिद्रासति दिदरिद्विषति । सन इति किम् ? देविता, यो: 'ग्रहगुहश्च सनः'-(४-४-६०) इति भ्रस्जभृगोस्तु सामान्येन प्रतिषेधेऽन्येषां च नित्यमिटि प्राप्ते विकल्पोऽयम् ॥४७॥२८
न्या० स०-इव-इवन्तेति-उदनुबन्धाऽकरणादिवु व्याप्तौ न गृह्यते । ईसंतीतिऋधूच ऋधूटित्यऽस्य वा अद्धितुमिच्छतीति वाक्यम् । दिदम्भिषतीति-अत्र सनि सादित्वाऽभावान्न धीपादेशः । गुणमपीति-स्वमते तु 'नामिनोऽनिट्' ४-३-५१ इति सन: कित्त्वम् । कृतगुणस्येति--प्रथमं शनिर्देशो व्याख्यातः । तन्मतसंग्रहार्थं तु कृतगुणस्येत्यर्थः । इडऽभावपक्षेऽपि गुण इति-सूत्रे कृतगुणनिर्देशात् कित्त्वेऽपि गुण इत्यर्थः ।