________________
पाद-४, सूत्र-३-६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १७१
त्रने वा ॥ ४. ४. ३ ॥
तृ अन इत्येतयोः प्रत्यययोविषयभूतयोरजेवी इत्यादेशो भवति वा । प्रवेता, प्राजिता, प्रवयणो दण्डः, प्राजनो दण्डः, अन्य त्वने प्रत्यये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता, प्राजिता प्रवेष्यति, प्राजिष्यति, प्रविवीषति, प्राजिजिषति, प्रवेतव्यम् , प्राजितव्यम् , प्रवेतुम् , प्राजितुम् ।।३।।
चक्षो वाचि क्शांग ख्यांग ॥ ४. ४. ४ ।।
चक्षिको वाचि वर्तमानस्याशिति प्रत्यये विषयभूते क्शांग ख्यांग् इत्यादेशौ भवतः, अनुस्वारेदिडभावार्थः । प्राक्शाता आखशाता । 'शिटयाद्यस्य द्वितीयो वा' (२-३-५९) इति ककारस्य खकारः । आख्याता, प्राक्शास्यति, प्राशास्यति, पाख्यास्यति, आक्शास्यते, आख्शास्यते, आख्यास्यते, आक्शेयात् , आक्शायात , आख्शेयात् , आख्शायाव , आख्येयात , आख्यायात , एवमाचाक्शायते, आचाख्यायत, प्राक्शातव्यम् , आख्यातव्यम् । विषयसप्तमोविज्ञानात् आक्शेयम् , आख्येयम् ।
वाचीति किम् ? बोधो, विचक्षणः, चक्षुः,-वर्जने,-संचक्ष्यते, अवसंचक्ष्याः परिसंचक्ष्या दुर्जनाः, संचक्ष्य गतः, हिंसायाम्-नृचक्षा राक्षसः । प्रशितीत्येव,-प्राचष्टे, गकारः फलवद्विवक्षायामात्मनेपदार्थस्तेन स्थानिवद्भावेन नित्यमात्मनेपदं न भवति । ४।।
नवा परोक्षायाम् ॥ ४. ४.५ ॥
चक्षिको वाचि क्शांगख्यांगो परोक्षायां वा भवतः । पाचकशो, प्राचखशौ, आच. यौ, पाचशे, प्राचख्शे, आचख्ये, पक्षे-आचचक्षे ।। ५ ।।
भृज्जो भर्ज ॥ ४. ४. ६ ॥
भृज्जतेरशिति प्रत्यये भज इत्ययमादेशो वा भवति । बमर्ज, बभर्जतुः, बमर्जुः, बभ्रज्ज, बभ्रज्जतुः, बभ्रज्जुः, भर्मोष्ट, भ्रक्षीष्ट, भ्रष्र्टा, भ्रष्टा, अभाीत् , अभ्राक्षीत् , बिभर्तति बिभ्रक्षति, बिजिषति, बिभ्रज्जिषति, भष्टुम् , भ्रष्टुम् , भय॑म् , भ्रद्ग्यम् , भर्गः, भ्रद्गः भर्जनम् , भ्रज्जनम् ।
अशितीत्येव,-भृज्जति, भूज्जते । कथं भृज्यात, भृज्यते, भृष्टः, भृष्टवान , बरीभृज्यते ? परत्वाद् भर्जादेशेऽपि स्थानिवद्भावेन पूर्वेण स्वरेण सह य्वृति भविष्यति, लुप्ततिनिर्देशो यड्लुप्निवृत्त्यर्थः । बर्भज्यते,-अत्र द्वित्वे सपूर्वस्य माभूत् ॥६॥
___ न्या० स०-मृज्जो भ०-भ्रद्यमिति-भृज्ज्यते 'ऋवर्ण' ५-१-१७ इति दः ध्यणि 'क्तेऽनिट:' ४-१-१११ इति गे निमित्ताऽभावे इति दन्त्यः सः तस्य 'तृतीयस्तृतीय.' १-३-४९ इति । कथं भृज्ज्यादिति-भर्जादेशः कथमत्र न भवतीत्याशङ्कार्थः । सपूर्वस्य माभूदिति-प्रकृतिग्रहणेति न्यायात्प्राप्तिः ।