________________
१७२ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-७-१०
प्रादागस्त आरम्भे कते ॥ ४. ४. ७ ॥
आरम्भे आदिकर्मणि वर्तमानस्य प्रशब्दादुत्तरस्य दागः स्थाने क्ते प्रत्यये परे तादेशो वा भवति । प्रत्तः, प्रदत्तः, दातु प्रारब्धवानित्यर्थः । प्रादिति किम् ? परीत्तम , उत्तरेण नित्यं त्तादेशः ।
दाग इति किम् ? दोंच-प्रत्तम् । प्रारम्भ इति किम् ? अन्यत्र नित्यमेव । प्रकर्षण दीयते स्म प्रत्तम् । क्त इति किम् ? प्रत्तवान् , दातु प्रवृत्त इत्यर्थः । द्विस्तकार आदेशः सर्वादेशार्थः,-प्रकार उच्चारणार्थः ॥७॥
न्या० स०-प्राददा०-तादेशो वा भवतीति-द्वितकारग्रहणं प्रक्रियालाधवार्थमन्यथाऽन्तस्य तादेशे 'अघोषे प्रथमोऽशिटः' १-३-५० इति सिध्यति । प्रत्त्त इति दातुमारब्धवानिति वाक्यं, न तु प्रारब्धवानिति, प्रशब्दार्थस्यारम्भस्यारब्धवानित्यनेनैवोक्तत्वात प्रशब्दप्रयोगे पौनरुक्त्यं भवति । सर्वावेशार्थ इति-अन्यथा षष्ठ्याऽन्त्यस्येति प्रवर्त्तते ।
निविस्वन्ववात् ॥ ४, ४. ८॥
एभ्यः परस्य दागः क्ते परे तादेशो वा भवति । नित्तम् , निदत्तम् , वोत्तम् , विदत्तम् , सूत्तम् , सुदत्तम् , अनूत्तम् , अनुदत्तम् , अवत्तम् , अवदत्तम् , सुदत्तमेवेत्यन्ये, उत्तरेण नित्यं त्तादेशे प्राप्त विभाणेयम् , केचिदत्राप्यारम्भ एव विकल्पमिच्छन्ति । यदाहः- .
'अववत्तं विदत्तं च प्रदत्तं चादिकर्मणि ।'
सुदत्तमनुदत्तं च निवत्तमिति चेष्यते इति । तन्मतसंग्रहार्थमारम्भ इत्यनुवतनीयम् ॥८॥
स्वरादुपसर्गादस्ति कित्यधः ॥ ४. ४. १ ॥
पूर्वयोगारम्भाद्वेति निवृत्तम् । स्वरान्तादुपसर्गात्परस्य धाजितस्य दासंज्ञकस्य तकारादौ किति प्रत्यये परे त्तादेशो भवति । प्रत्तः, प्रत्तवान , परीत्तः, परीत्तवान , परीस्त्रिमम् , प्रणीत्तिमम् , त्रिमा । धतेरपीत्वं बाधित्वा विशेषविहितत्वात् त्तत्वमेव भवति, अवत्तवान् । अवत्तिः।
उपसर्गादिति किम् ? दधि दत्तम् , लता दिता। स्वरादिति किम् ? निर्दत्तम् , दुर्दत्तम् , निदित्तम् , दुर्दित्तम् । द इति किम् ? प्रदाता वोहयः, निदातानि भाजनानि । कितीति किम् ? प्रदाता । तीति किम् ? प्रदाय । प्रध इति किम् ? धांग,-निहितः, धे,निधीतः ॥९
न्या० स०-स्वरादु०-तत्वमेव भवतीति-उपसर्गात् इति विशेषविधानात् , उत्तरत्र तु सामान्यम् । अवत्तिरिति-अवदानम् । 'उपसर्गादातः' ५-३-११० इति बाधकः श्वादिभ्यः क्तिः ।
दत् ॥ ४.४.१०॥
..