________________
पाद-३, सूत्र-८४-८८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चर्थोतुऽध्यायः
[१६३
न्या० स०-णेरनिटि-अनः सिद्ध इति-अन्यथाऽनेकस्वरत्वात् 'निन्दहिंस' ५-२-६८ इति णक एव स्यात् ।
सेटक्तयोः॥ ४. ३. ८४॥
सेट्कयोः क्तयोः परतो गेलुंग भवति । कारितः, कारितवान् , हारितः, हारितवान् , गणितः. संज्ञपित: पशुः । सेडिति किमर्थम् ? इटि कृते लोपो यथा स्यात् । शाकित:, शाकितवान् । अन्यथेह इट् न स्यात् ॥४॥
___न्या० स०-सेटक्तयो:-इट् न स्यादिति-एकस्वरत्वात् 'एकस्वरादनुस्वार' ४-४-५६ इति इनिषेधात् , न च वाच्यमेकस्वराद् विहिताभावादेवेहेनिषेधो न भविष्यति किमर्थमिदमुक्तमिति, यतो विषय एव णिलोपांपेक्षयेदं द्रष्टव्यम् । . आमन्ताल्वाय्येत्नावय ॥ ४. ३. ८५ ॥
आम , अन्त, आलु, आय्य, इत्नुप्रत्ययेषु परेषु णेरयादेशो भवति । लुकोऽपवादः । कारयांचकार, गणयांचकार, गण्डयन्तः, मण्डयन्तः, स्पृहयालुः, गृहयालुः, स्पृहयाय्यः, महयाय्यः, स्तनयित्नुः, गदयित्नुः, अन्ताय्येत्नव प्रौणादिकाः ।।८५॥
लघोर्यपि ॥ ४. ३. ८६ ॥
लघोः परस्य र्यपि परेऽयादेशो भवति । प्रशमय्य, प्रवेभिदय्य । लघोरिति किम ? प्रतिपाद्य गतः। वचनसामर्थ्यादेकेन धर्णेन व्यवधानमाश्रीयते न तु भूतपूर्वन्यायः प्रत इत्यकरणात् ।।६।।
न्या० स०-लघोर्यपि-प्रबेभिवय्येति-प्रबेभिद्यमानं प्रयुक्ते यङन्ताणिग् न यङलुबन्तात् । 'अत:' ४-३-८२ इत्यलोपे 'योऽशिति' ४-३-८० यलुप् अस्य स्थानित्वादगुणाभावः, प्रबेभिदनं पूर्व, यङ लुबन्ताद्धि णिगि गुणः स्यात् , 'न वृद्धिश्च' ४-३-११ इति न यङः पूर्वं लोपाद् भूतपूर्वन्याय इति । ननु वचनादेकवर्णव्यवधानं तदाश्रीयते यदा व्यवहितो न संभवति, अत्र तु चुराद्यदन्तेषु प्रबेभिदय्येत्यत्र यङोऽकारलोपे च भूतपूर्वगत्याऽव्यवहितोऽपि संभवतीत्याह-प्रत इत्यकरणादिति ।
वाप्नोः ॥ ४. ३. ८७॥
आप्नोते: परस्य णेर्यपि परेऽयादेशो वा भवति । प्रापय्य गतः, प्राप्य गतः । श्नुनिर्देशादिङादेशस्य न भवति, अध्याप्य गतः, 'आप्Mण लम्भने' इत्यस्यापीच्छन्त्यन्ये ।।८७।।
मेडो वा मित् ॥ ४. ३, ८८॥ मेडो यपि परे मिदादेशो वा भवति । अपमित्य, अपमाय ॥१८॥