________________
१६२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-८१-८३
क्यो वा ।। ४. ३. ८१ ॥
धातोर्व्यञ्जनात्परस्य क्यस्याशिति प्रत्यये परे वा लुग्भवति, सामान्यनिर्देशात् क्यन्क्यकोग्रहणम् । क्यक्षस्तु व्यञ्जनान्तात्प्राप्तिरेव नास्ति । समिधमिच्छति, समिधिष्यति, समिध्यिष्यति, समिध्यात्, समिध्य्यात् , दृषदिवाचरति दृषदिष्यते. दृषद्यिष्यते, दृषदिषोष्ट, दृषधिषीष्ट । व्यञ्जनादित्येव.-पटीयिता. पटायिता। अशितीत्येव,-समिध्यति, दृषद्यते, पठ्यते । केचित्तु यकोऽपि लुम्विकल्पमिच्छन्ति । भिषजिता, भिषज्यिता। तन्मतसंग्रहार्थ ककारेणोपलक्षितो य् क्य् इति व्याख्येयम् ।
अन्यस्त्वाह शिष्य इवाचरिता शिषिता शिष्यितेति । यद्यस्ति प्रयोगस्तदा कृत्क्यपोऽपि ग्रहणम् । क्य इति व्यञ्जनात्षष्ठी अतो लुकि कृते लुगा । अन्यथा हि अतो लुगपवादः क्यलुगविज्ञायेत एवं पूर्वत्रापि ।।१।।
न्या० स०-क्योवा-क्यलुक विज्ञायतेति-फलं च स्थानिवद्भावेस्य अदृषदि, अपापचि इत्यादौ न वृद्धिः, सस्वरयकारलोपे तु स्थानित्वं न स्यात् समुदायलोपात् , नापि 'न वृद्धिश्च' ४-३-११ इति वृद्धिनिषेधः, तत्र नामिन इत्यधिकारात्। तथा अवध्वंसते विच, अवध्वंसमिच्छति क्यन् , ततः क्तप्रत्यये अवध्वंसित इत्यस्य अकारस्य स्थानित्वात् 'नो व्यञ्जन' ४-३-४५ इति नस्य न लुक, सस्वरस्य तु क्यनो लोपे स्वरव्यञ्जनविधित्वात् 'स्वरस्य परे' ७-४-११० इति स्थानित्वाभावान्नस्य लूक स्यादेव, तथा 'अत:' ४-३-८२ इत्यकारलोपे स्थानिवद्भावे समिधिष्यतीत्यादिष्वपि गुणाद्यभावः सिद्धः, सस्वरक्यलोपे तु न सिध्येत् ।
अतः ॥ ४. ३. ८२ ॥
अकारान्ताद्धातोविहितेऽशिति प्रत्यये तस्यैव धातोल गन्तादेशो भवति । कथयति, कुषुभ्यति, मगध्यति, चैकोषितः, प्रचिकीर्घ्य, समिध्यिष्यति, दृषद्यिष्यते । प्रत इति विहित. विशेषणादिह न भवति-गतः, गतवान् , ततः, ततवान् । अत इति किम् ? याता, वाता। अशितीत्येव,-चिकोर्षत, लोलूयेत । चिकोयते चिकीर्ष्यादित्यादौ लोपविधेर्बलीयस्त्वात 'दीर्घश्च्वि '-(४-३-१०८ ) इत्यादिना दी? न भवति,-विषयविज्ञानाद्वा प्रागेव लोपः ॥८२।।
न्या० स०-प्रत:-चैकोषित इति-क्त चिकीषितं प्रज्ञाद्यणि चैकीर्षितः। विषयविज्ञानावेति-लोपात् स्वरादेश इत्याशङक्याह ।
गोरनिटि ॥ ४. ३. ८३॥
अनिटयशिति प्रत्यये गेलुंग भवति । प्रततक्षव , पररक्षत , आटिटव , आशिशव, कारणा, हारणा, कारकः, हारकः, कार्यते, हार्यते, प्रकार्य । इय्य्गुणवद्धिदीर्घतागमानां बाधकोऽयम् , अनिटीति विषयसप्तम्यपि तेन चेतन इत्यत्र प्रागेवणेला 'इडितो व्यञ्जनाद्यन्तात्' (५-२-४४) इति अनः सिद्धः। अनिटीति किम् ? कारयिता, हारयिता। प्रशितीत्येव,-कारयति हारयति ॥३॥