________________
पाद-३, सूत्र-७८-८० ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१६१
भविष्यति किं सन: सादिविशेषनेन ? सत्यं, सादि विना 'इडेत्' ४-३-६४ इति असन्णकचिति विशेषनिषेधो बध्नीयात् ।
व्यञ्जनाः सश्च दः॥ ४. ३.७८ ॥
धातोर्व्यञ्जनान्तात्परस्य देलु क यथासंभवं धातुसकारस्य च दकारो भवति । अचकाद्वान् अन्वशात , अजाग:, अबिभः, शके:-अशाशक, वस्के:-अवावक । व्यञ्जनादिति किम् ? अयात् । धातोरित्येव,-प्रभेत्सीत् , ईतः परादित्वात्सेतोऽपि प्राप्नोति ॥७॥
न्या० स०-व्यञ्जनाद्दे:-अब्रवीदित्यादौ ईतः परत्वेऽपि सन्निपातन्यायादेर्न लुक् । अजागरित्यादिषु तु नानिष्टार्थेति न्यायात् सन्निपातन्यायो न प्रवृत्तः । प्रवावगिति-'संयोगस्यादौ' २-१-८८ इति सलुकोऽसत्त्वेऽपि देरनन्तरस्य विज्ञानात् पाश्चात्यसस्य दो न भवति, अत्र व्यञ्जनादिति भणनादिस्तन्या एव संभवति ।
सेः रद्धां च सा ॥ ४. ३.७१ ॥
धातोर्व्यञ्जनान्तात्परस्य सेलुक सकारदकारधकाराणां च यथासंभवं वा भवति । अचकास्त्वम् , अचकात्त्वम्, अन्वशास्त्वम् , अन्वशात्त्वम् । सकारस्य रुत्वे सिद्ध पक्षे रुत्वबाधनार्थं वचनम् , ततश्च पक्षे 'धुटस्तृतीयः' (२-१-७६) इति सकारस्य दकारो भवति ।
अभिनस्त्वम् , अभिनत्त्वम् , अच्छिनस्त्वम् , अच्छिनत्त्वम् , अरुणस्त्वम् ,अरुणत्त्वम्, अजर्घास्त्वम् , प्रजर्घवम् , अविभस्त्वम् , प्रजागस्त्वम् । रोरुदित्करणं किम् ? उस्वादिकार्य यथा स्यात्-अभिनोऽत्र, अरुणोऽत्र । दिप्रत्यासत्तेः सिरपि हस्तन्या एव । तेनेह न भवति, भिनत्सि ।।७।।
न्या० स०-सेः सद्धां०-उत्वादिकार्यमिति-आदिशब्दात् 'रोर्यः' १-३-३६ इत्यादि। योऽशिति ॥ ४. ३. ८०॥
व्यञ्जनान्ताद्धातोः परस्य यकारस्याशिति प्रत्यये परे लुग्भवति । जंगमिता, बेभिदिता, बेभिदांचक्र, बेभिदिषीष्ट । क्ये,-बेभिद्यते, सोसूचिता, सोसूत्रिता, मोमूत्रिता, शाशयिता, कुषुभिता, मगधकः । सूच्यादीनां णिज्लोपे शयादेशेऽस्य लोपे च व्यञ्जनान्तता, अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति, तेन सोमूचियता, शाशय्यिता, कुषुभ्यिता, तन्मतसंग्रहार्थं व्यञ्जनान्ताद्धातोविहितस्येति विहितविशेषणं कार्यम् ।
__ धातोरित्येव,-ईयिता, मव्यिता, पुत्रकाम्यिता। व्यञ्जनादित्येव,-लोलयिता,कण्डयिता । प्रशितीति किम ? बेभिद्यते, चेच्छिद्यते ॥५०॥
न्या० स०-योऽशिति-जंगमितेति-यद्यत्र सस्वरस्य यस्य लुक् स्थात्तदा जंगमित इत्यादौ 'गमहन' ४-२-४४ इत्युपान्त्यलोप: स्यात् , स्थितेत्वस्य स्थानित्वाद् व्यवधायकत्वम् ।