________________
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-७६-७७
स्वरेऽतः ॥ ४.३.७५ ॥
सकोऽकारस्य स्वरादौ प्रत्यये परे लग भवति । अधुक्षाताम् , अधुक्षाथाम् , अधुक्षि, अधिक्षाताम् , अधिक्षाथाम् , अधिक्षि । स्वर इति किम् ? अधुक्षत, अधिक्षत । अधुक्षन्ते. त्यकारलोपेऽपि स्थानिवद्भावादन्तोऽदादेशो न भवति ।। ७५ ॥
न्या० स० स्वरेऽतः-अधुक्षातामिति-सकोऽकारलोपात् 'आतामाते' ४-२-१२१ इति इत्वं, 'अवर्णस्य' १-२-६ इत्येत्वं च न भवति । स्थानिवद्भावादिति-प्राचः पूर्वास्माद्विधिरित्याश्रीयते इति 'स्वरस्य पर' ७-४-११० इति स्थानिवद्भावः ।
दरिद्रोऽद्यतन्यां वा ॥ ४. ३. ७६ ॥
दरिद्रातेरद्यतन्यां विषयेऽन्तस्य वा लुग भवति । अदरिद्रीत्, अदरिद्रासीत्, अदरिद्रि, अदरिद्रायि ॥ ७६ ।।
न्या० स० दरिद्रोऽद्यतन्यां वा-अद्यतन्यां विषयेति-विषयव्याख्यानादादेशादागम इति न्यायात् प्रथमं 'यमिरमिनम्यात:' ४-४-८६ इति इट् सोन्तश्च न, भावकर्मणोस्तु त्रिमिचि 'आत ऐः कृऔ' ४-३-५३ इति ऐकारो न ।
अशित्यस्सन्णकणकानटि ॥ ४. ३. ७७॥ ___ सकारादिसन्णकच्णकानड्वजितेऽशिति प्रत्यये विषयभूते दरिद्रातेरन्तस्य लुग् भवति । दरिद्रयति, दरिद्रिता, दरिद्रितुम, दरिद्रणीयम् , साधुदरिद्री। णिन-दरिद्रयते, दरिद्रयात्, दरिद्रांचकृवान् , विषयसप्तमीविज्ञानात्पूर्वमेवाकारलोपे दरिद्रातीति दरिद्रः । अजेव भवति नत्वाकारान्तलक्षणो णः। तथा दुर्दरिद्रमित्याकारान्तलक्षणोऽनो न भवति । दरिद्राणम् , दरिद्र इति च घनि 'प्रात' इति ऐन भवति ।
__ अशितीति किम् ? दरिद्राति, दरिद्रामि, अदरिद्राम् । सन्नादिवर्जनं किम् ? सनि, दिदरिद्रासति । क्रियायां कियार्थायां णकचि दरिद्रायको व्रजति । 'पर्यायाहर्ण' (५-३-२०) इत्यादिना णके दरिद्रायिका वर्तते । 'णकतृचौ' (५-१-४८) इति च णके दरिद्रायकः । अनटि,-दरिद्राणम् । सनः सादिविशेषणं किम? दिदरिद्विषति । प्रक-इत्येव वक्तव्ये णकचणकयोरुपादानं किम् ? आशिष्यकनि मा भूत-दरिद्रकः । केचिद्दरिद्रातेरनिटि कसावालोपं नेच्छन्ति, तन्मते इट् आम् चाभिधानान्न भवत:-दिदरिद्रावान् ॥ ७७ ॥
न्या० स० अशित्यस्सन् ०-दरिद्रयतीति-दरिद्रतं प्रयुङक्ते णिगि विषयविज्ञानात् पोऽन्तो न । दरिद्रातीति दरिद्रः इति-विशेषविहितापि लुक् लोपात्स्वरादेश इति 'आत ऐः कृऔ' ४-३-५३ इत्यैकारेण प्रत्यये बाध्यते ।
दरिद्रांचकृवानिति-आमादेशस्यानित्यत्वे ददरिद्रवानित्यपि, षष्ठ्यां तु ददरिद्रुष इति भवति ।
दिदरिद्विषतोति-नन्वत्र 'इडेत् पुसि च' ४ ३-९४ इत्यनेन आल्लुकि दिदरिद्रिषतीत्येव