________________
१६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-८९-९४
न्या० स०-मेडो-अत्र मिदादेशेऽपि 'हस्वस्य तः' ४-४-११३ तान्तः सिध्यति लाघवाथं तु मिदादेशः ।
तेः क्षी॥ ४. ३. ८१॥
ोर्यपि परे क्षी आदेशो भवति । प्रक्षीय, उपक्षीय । निरनुबन्धनिर्देशात् क्षिषश् हिसायामित्येतस्य न भवति । प्रक्षित्य, अस्यापि ग्रहणमित्यन्ये ।।८।।
न्या० स०-क्षेः क्षी-निरनुबन्धनिर्देशादिति-अत्र पूर्वाचार्यप्रसिद्धानुबन्धग्रहात् क्षित् निवासे इत्यस्याऽपि ग्रहः ।
क्षय्यजय्यो शक्ती ॥ ४. ३.१०॥
क्षि जि इत्येतयोः शक्तो गम्यमानायां यप्रत्ययेऽयन्तादेशो निपात्यते । शक्यः क्षेतुं, क्षय्यो व्याधिः, शक्यं क्षेतुं क्षय्यं बटुना, शक्यः जेतुम् जय्य: शत्रुः, शक्यं जेतुं जय्यं राज्ञा । शक्ताविति किम् ? अर्हे क्षेयम् , जेयम् ।।९०॥
क्रय्यः क्रयार्थे ॥ ४. ३. ११ ॥
कोणातेर्यप्रत्ययेऽयन्तादेशो निपात्यते 'क्रयार्थे'क्रयाय चेत्प्रसारितोऽभिधेयो भवति । कय्यो गौः, कय्यः कम्बलः । क्रयार्थ इति किम् ? केयं नो धान्यम् न चास्ति प्रसारितम् ॥६ ॥
सस्तः सि ॥ ४.३.१२ ॥
अशितीत्यनुवर्तते, धातोः सकारान्तस्याशिति सकरादौ प्रत्यये विषयभूते तकारोऽन्तादेशो भवति । वस्-वत्स्यति, अवत्स्यत् , अवात्सीत , वत्सीष्ट चत्रेण, व्यतिवत्सीष्ट, विवत्सति, प्रद-जिघत्सति, घस्-घत्स्यति, व्यतिघत्सीष्ट । स इति किम् ? यक्षीष्ट, यक्ष्यति । सोति किम् ? वसिषीष्ट, वसिष्यते । अशितीत्येव,-आस्से, वस्से। विषयसप्तमीविज्ञानात प्रवात्ताम् अवात्तेत्यत्र प्रागेव सस्य तकारः ।।९२॥
न्या० स०-सस्तः सि-अवात्तामिति-न च सिचो लुपः स्थानित्वाद् भविष्यति इति वाच्यं, यतः सकारे त उक्तः सस्य वर्णविधित्वात् ।
दीय दीङः क्ङिति स्वरे॥ ४.३, १३ ॥
दीङः विडत्यशिति स्वरे परे दीयादेशो भवति । उपदिदीये, उपदिदीयाते, उपदिदीयिरे, उपदिदीयिध्वे, उपदिदीयिट्वे, उपदिदीयानः । दीडो डिकरणं यङ्लुपनिवृत्यर्थम्उपदेधितः । विडतीति किम् ? उपदानम् । स्वर इति किम् ? उपवेदीयते। परोक्षायामिति सिद्धे विङति स्वरे इत्युत्तरार्थम् ॥१३॥
इडेत्पुसि चातो लुक् ॥ ४. ३. १४ ॥