________________
१५२ ]
बृहद्वृत्ति- लघुन्याससंवलिते [ पाद- ३, सूत्र - ४६-४९
"
क्षीत्, अमेत्सीत्, अरौत्सीत्, अतासत् । बहुवचनं जात्यर्थम् । तेनानेकव्यञ्जनध्यक्षधानेऽपि भवति । रन्ज्-अराङ्क्षीत् सञ्ज्, असाङ्क्षीत, भञ्ज् अभाङ्क्षीत्, तक्षौअताक्षीत् त्वक्षौ - अत्वाक्षीत् औदित्वाद्वेटो । समानस्येत्येव, उदवोढाम् । अनि किम् ? प्रतक्षीत्, अत्वक्षीत्, अदेवीत्, प्रकोषीत्, अनर्तीत् ।। ४५ ।।
1
न्या० स० - व्यञ्जना० - अताक्षीदिति-तक्षौ अद्यतनीदि सिच् ईत् 'संयोगस्यादौ' २-१-८८ इति कलुकि 'षढोः कस्सि' २-१-६२ इति षस्य कत्वे सिचः षत्वेऽटि च रूपम् । उदवोढामिति - पूर्ववृद्धौ एकदेशेति न्यायाद् वहेरोत्वं, ततो भूतपूर्वगत्या ढस्य परेऽसत्त्वाद् वा व्यञ्जनान्तत्वे पुनरप्योकारस्य वृद्धिः प्राप्नोति ।
वोर्णुगः सेटि ॥ ४. ३. ४६ ॥
ऊर्णोतेः सेटि सिचि परस्मैपदविषये परे वृद्धिर्वा भवति । प्रोर्णावीत्, पक्षे प्रवीत् प्रर्णवीत् । परस्मै इत्येव प्रौर्णविष्ट । सानुबन्धोपादानं यङ्लुत्निवृत्त्यर्थम् । प्रोर्णोनावत् । अङित्वपक्षे पूर्वेण नित्यं वृद्धिः । ङित्वे तु प्रौर्णोनुवीत् । 'बोर्णोः’ ( ४-३ - १ ) इत्यत्र हि प्रनुबन्धाभावाद्यङ्लुबन्तस्यापि ग्रहणम् एवं च प्रकृते स्त्ररूप्यं लुबन्तस्य च द्वैरूप्यं सिद्धं भवति । सेटीत्युत्तरार्थम् ।। ४६ ।।
न्या० स०- वो ग ० :- प्रकृते स्त्ररूप्यमिति - शुद्धधातो रूपत्रयमित्यर्थः ।
1
व्यञ्जनादेवपान्त्यस्यातः ॥ ४. ३.४७ ॥
व्यञ्जनादेर्धातोरुपान्त्यस्यातः सेटि सिचि परस्मैपदविषये परे वृद्धिर्वा भवति । प्रकाणीत्, अकर्णात् प्रक्वाणीत्, अक्वणीत्, अश्वासीत्, अश्वसीत्, गौरिवाचारीत् अगावीत्, अगवीत् ।
9
व्यञ्जनादेरिति किम् ? मा भवानटीत् मा भवानशीत् । उपान्त्यस्येति किम् ? अरक्षीत् श्रपिपठिषीत्, अवधीत् । श्रत इति किम् ? अवेवीत् । सेटीत्येव, प्रधाक्षीत् ॥ ४७ ॥
वदव्रजलः ॥ ४. ३. ४८ ॥
वदव्रजोर्लकारान्तानां रेफान्तानां च धातूनामुपान्त्यस्याकारस्य परस्मैपदविषये सेटि सिचि परे वृद्धिर्भवति । प्रवादीत्, अव्राजीत्, अज्वालीत्, अचालीत्, अक्षारीत्, त्सर्-अत्सारीत् । उपान्त्यस्येत्येव - अश्वल्लीत्, अबीत् । अत इत्येव - न्यमीलीत्, न्यखोरीत् । पूर्वस्यापवादोऽयम् ।। ४८ ।।
न श्वि-जागृ-शस्-क्षण-ह्म्येदितः ॥। ४. ३. ४१ ॥
श्विजागृशस्क्षणां हकारमकारयकारान्तानामेदितां च धातूनां परस्मैपदविषये सेटि मिलि परे वृद्धिर्न भवति । श्वि-प्रश्वयीत्, जागृ, -अजागरीत्, शस् - प्रशसीत् । शसः स्थाने श्वसं पठन्त्यन्ये- अश्वसीत्, क्षण - प्रक्षणीत्, हान्त अग्रहीत् अचहीत् । मान्त, -