________________
पाद-३, सूत्र-४३-४५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः।
[१५१
मृजेर्गुणे सत्यकारस्य वृद्धिर्भवति । माष्टि, मार्टा, माष्टुम् , माष्टव्यम् , माजिता, मार्जकः, संमार्जनम् , संमार्गः । अत इति किम् ? मज्यते, मरीमृज्यते, मृष्टः, मृष्टवान् , कथं स्रष्टा म्रष्टुम् , मिला जानन्ति ये मजेरपि रत्वमिच्छन्ति ॥ ४२ ॥
___ न्या० स०-मजो०- मजेरपीति-न केवलं मृजादीनामित्यर्थः । रत्वमिच्छन्तीतिसस्वरं रत्वमकारागमे रत्वं वा।
ऋतः स्वरे वा ।। ४. ३.४३ ॥
मजेऋकारस्य स्वरादौ प्रत्यये परे वा वृद्धिर्भवति । परिमार्जन्ति, परिमृजन्ति, परिमार्जन्तु, परिमृजन्तु, पर्यमार्जन् , पर्यमजन , परिममार्जतुः परिममजतुः, परिमार्जन् , परिमृजन् । ऋत इति किम् ? प्रमार्ज, मार्जयति । स्वर इति किम् ? मृष्टः, मृष्ठः, मृज्वः, मृज्मः ।। ४३ ।।
___न्या० स०-ऋतः स्वरे वा-ममार्जेति-गुणे कृते 'मृजोऽस्य वद्धिः' ४-३-४२ इत्यनेन नित्यं वृद्धिः, न त्वनेन विकल्पः। ननु गुणात् प्रागेव परत्वाद् वृद्धिः कथं न ? सत्यं, विकल्पबलात् , 'ऋतः स्वरे वा' ४-३-४३ इत्यस्य विकल्पपक्षे इदमुदाहरणमन्यथा हि परत्वात् वृद्धिः स्यात् किं व्यावृत्त्या, किंबहुना गुणे कृते वृद्धिविकल्पो माभूदित्येवमर्थभूत इति व्यावृतिस्तेन ममर्ज मर्जयतीति न भवति ।
स्वर इति किमिति ? धातोः कार्य विधीयमानं धात्वधिकारविहित एव प्रत्यये विज्ञायते इति कंसपरिमृज इत्यत्र विबन्तस्य धातुत्वेऽपि नामाधिकारविहिते स्यादिप्रत्यय
वृद्ध्यभावः।
सिचि परस्मै समानस्याङिति ॥ ४. ३. ४४ ॥
समानान्तस्य धातोः परस्मैपदविषये सिच्यङिति परे आसन्ना वृद्धिर्भवति । अचैषीत् · अनेषीत, प्रयावीत, अलावीत् , अकार्षीत्, प्रतारीख, प्रचेचायोत, अनेनायीत् ।
परस्मै इति किम् ? अच्योष्ट, अप्लोष्ट । समानस्येति किम् ? गौरिवाचारीत अगवीत , अचिकोर्षीदित्यत्र परत्वात् 'अतः' (४-३-८२) इति अकारस्य लुक् । अडितीति किम् ? णू-न्यनुवीत् , धू-न्यधुवीत , अणु:-प्रौर्णोनुषीत , गु,-न्यगुषीत, घु,-न्यध्रुषीत् । येषां तु गु दीर्घान्तो ध्रुस्तु सेट् तेषां न्यगुवीत न्यध्रुवीत इत्यपि भवति ॥ ४४ ॥
न्या० स०-सिचिपरस्मै०-अच्योष्टेति-नित्यत्वादन्तरङ्गत्वाच्च गुणः । अकारस्य लुगिति-अत एव मूलोदाहरणेषु अकारस्य वृद्धिर्न दर्शिता । गु दीर्घान्त इति-ऊदन्त इत्यर्थः, ऊदन्ताश्च तन्मते सेट एव, एतच्च ‘एकस्वरादनुस्वरातः' ४-४-५६ इत्यत्र सूत्रान्ते संग्रहश्लोके वक्ष्यते ।
व्यञ्जनानामनिटि॥ ४. ३. ४५ ॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषयेऽनिटि सिचि परे समानस्य वृद्धिर्भवति । अपा