________________
पाद-३, सूत्र-५०-५२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१५३
अवमीत् , अस्यमीत् , यान्त-अव्ययीत् , अहयोत , एदित्-अकगीत् , अरगीत , प्रकखीत् । श्च्यादीनां यङ्लुबन्तानामपि प्रतिशेधः । अशेश्वयीत् , अजर्जागरीत् । केचिज्जागर्तेरपि यङमिच्छन्ति । प्रशाशसीत् , अचक्षणीत् । अचाचहीत् , अजीत् , असंस्यमीत् , अवाव्ययीत् । एदितां तु यङ्लुपि न प्रतिषेधः । अजाहासीत , अजाहसीत् । अत एव श्व्यादयो नैदित: क्रियन्ते, अन्यथा ह्यदितः कृत्वा इह श्व्यादिग्रहणं न क्रियेत ।
सेटीत्येव,-अधाक्षीत् । वकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः । अमवीत् । शिवजाग्रोः 'सिचि परस्मै समानस्याङिति' (-३-४४ ) इति वृद्धावन्येषां च 'व्यञ्जनादेर्वोपान्त्यस्यात.' (४-३-४७) इति विकल्पे प्राप्ते वचनम् ।। ४९ ।।
न्या० स०-न शिव जागृ०-अचाचहीदिति-अजर्गोंदिति-अजगहिदिति भग्नं तत्र वृति गुणे उपान्त्यस्याऽकाराऽसंभवात् ।।
.. असंस्यमीदिति-परमताभिप्रायेणेदं स्वमते तु 'वेः स्यम:' इति स्वृत्यऽसेसेमीदिति भवति ।
णिति ॥ ४. ३.५० ॥
मिति णिति च प्रत्यये परे धातोरुपान्त्यस्यातो वृद्धिर्भवति । अपाचि, पाकः, पाचकः, पपाच, पाचयति । अत इत्येव,-भोगः, भोजयति । उपान्त्यस्येत्येव,-भङ्गः, भञ्जकः, चकासयति । णितीति किम् ? पचति ।। ५० ।।
नामिनोऽकलिहलेः ४. ३, ५१ ॥ नाम्यन्तस्य धातोर्नाम्नो वा कलिहलिवजितस्य णिति प्रत्यये परे वृद्धिर्भवति ।
प्रचायि, अनायि, अयावि, अलावि, अकारि, अतारि, कारः, हारः, चिकाय, कारकः । कलिहलिवर्जनानाम्नोऽपि । तेन पटुमाख्यातवान् अपीपटत् , अलीलघत इत्यत्र वृद्धावन्त्यस्वरादिलोपे चासमानलोपित्वात् सन्धद्भावः सिद्धो भवति । कलिहलिवर्जनं किम् ? कलिं, हलि वाग्रहीत् , अचकलत् , अजहलत् । अन्ये तु नाम्नो वृद्धिमनिच्छन्तोऽन्त्यस्वरस्योकारस्यैव णिचि लोपमिच्छन्तः समानलोपित्वात्सन्वद्भावप्रति धऽपपटत् अललघदित्येवाहुः ॥५१॥
न्या० स०-नामिनोऽक-अपीपटदित्यादिसिध्यर्थं सूत्रं सूत्रितं, अन्यथा 'नामिनः' ४-३-५१ इति गुणे अयवादेशे च कृते 'णिति' ४-३-५० इति वृद्धौ सर्वाण्यपि सिध्यन्ति, ननु 'नामिनो गुणः' ४-३-१ इत्यत्र कलिहलिवर्जनं क्रियतां तद्वर्जनाच्च नाम्नोऽपि गुणेऽपीपटदित्यादीन्यपि सेत्स्यन्ति किमनेन ? सत्यं, कलिहलिवर्जनान्नाम्नोऽपि स्यात्ततश्च सख्येत्यादावपि गुणप्रसङ्ग।
जागुर्बिणवि ॥ ४. ३. ५२ ॥ जागर्तेौ णव्येव णिपि प्रत्यये परे वृद्धिर्भवति । अजागारि, जागारिष्यते,