________________
बृहद्वृत्ति- लघुन्याससंवलिते [ पाद- ३, सूत्र - २२-२४
ङिद्वदिति प्रकृते द्विद्वचनं यजादिवचिस्वपीनां य्वदर्थम् । जागर्तेश्व गुणार्थम् । वे हि ते न स्याताम् । यथा, - स्वपितः, स्वपन्ति, जागृतः, जाग्रति ।। २१ ।
१४६ ]
न्या० स० इन्ध्यसंयोगात् ० - निन्यतुरिति- नन्वत्र 'नो व्यञ्जनस्य' ४-२-४५ इत्युपान्त्यनकारस्य लुक् कथं न ? सत्यं प्रकृतेः पूर्वमन्तरङ्गमिति कृत्वा न लोपे बहिरङ्ग यत्वमसिद्धमिति न व्यञ्जनान्तत्वं यद् वा यत्वे कृते संयोगान्तो धातुस्ततः कित्त्वमपि नास्ति ।
ऊचतुरिति-यजादिसाहचर्यात् नित्याऽणिजन्तस्यैव वचो ग्रहणमिति वचण् भाषणे' इत्यस्य 'यजादिवचे: किति' ४-१-७९ इति न य्वृत् ।
द्विवचनमिति - नन्वधिकारायाते ङित्वेऽप्याश्रीयमाणे गुणादिकार्यं न भविष्यति किं द्विवचनेन ? इत्याह-यजादीति । ते इति तच्च स चेति वाक्ये त्यदादित्वात्तच्छेष: स्त्रीपुन्नपुंसकानामिति वचनात् सूत्रे यत्परं तद्भवति ।
स्वञ्जेर्नवा ।। ४. ३. २२ ॥
स्वजेः परा परोक्षा वा विद्वद्भवति । परिषस्वजे, परिषस्वजे ।। २२ ।।
जनशो न्युपान्त्येतादिः क्त्वा ।। ४. ३. २३ ।।
जकारान्ताद्धातोर्नशेश्व नकारे उपान्त्ये सति तकारादिः क्त्वा द्विद्वा भवति । रक्त्वा, रक्त्वा, भक्त्वा, भङ्क्त्वा, मक्त्वा, मङ्क्त्वा । 'मस्जेः सः' ( ४-४-१११ ) इति नः । नष्ट्या, नंष्ट्वा 'नशो घुटि' (४-४- ११० ) इति नः । नीति किम् ? भुक्त्वा, इष्ट्वा । उपान्त्य इति किम् ? निक्त्वा । क्त्वेति किम् ? भङ्क्ता, नंष्टा । तादिरिति किम् ? विभज्य, प्रञ्जित्वा ।। २३ ।।
न्या० स०० - जनशो - अञ्जित्वेत्यत्र 'धूगौदित: ' ४-४- ३८ इतीट् ।
ऋत्तृष-मृष-कृश-वञ्च-लुञ्च-थफः सेट् ॥ ४. ३. २४ ॥
न्युपान्त्य इति विशेषणं थफान्तानाम् नान्येषां संभवव्यभिचाराभावात् न्युपान्त्ये सति एम्यो विहितः क्त्वा सेट् किद्वद्वा भवति ।
'
ऋत्-ऋतित्वा अतित्वा तृष्-तृषित्वा तृषित्वा, मृषच्, -मृषित्वा मर्षित्वा, कृश्,कृशित्वा, कशित्वा, वश्व, -वचित्वा, वश्वित्वा, लुम्व:-लुचित्वा, लुवित्वा, अन्य् श्रथित्वा, श्रथवा, ग्रन्थ, प्रथित्वा ग्रन्थित्वा, गुम्फ, गुफित्वा, - गुम्फित्वा, ऋम्फ, ऋफिरवा, ऋम्फित्वा । न्युपान्त्य इत्येव, कुथ्, -कोथित्वा, पुथ्, - पोथित्वा, रिफ, रेफित्वा । क्त्वेत्येव,प्रथितः, ग्रथितवान् । सेडिति किम् ? वञ्च, वक्त्वा, मृष- मृष्ट्वा । ऊदित्त्वात्क्त्वायां aat | विहितविशेषणाह फित्वेत्यत्र नलोपेऽपि कित्त्वाद्गुणो न भवति । क्त्वेत्यनेन कित्वप्रतिषेधे प्राप्ते विकल्पार्थं वचनम् ॥ २४ ॥
।
न्या० स० - ऋत्तृषमृष० - संभवव्यभिचाराभावादिति - ऋत्तृषमृषकृशां न संभव: वञ्चलुञ्चर्न व्यभिचार इति एतत्तु समुदितानां लक्षणम् ।