________________
१४४ ]
बृहद्वृत्ति - लघुन्यास संवलिते
-
[ पाद- ३, सूत्र - १३-१७
सूतेः पञ्चम्याम् ।। ४. ३.१३ ॥
सूतेः पश्वम्यां गुणो न भवति । सुवै, सुवावहै, सुवामहै । तिनिर्देशाद्यङ्लुपि गुणो भवत्येव, सोषवाणि, - सोषवाव ।। १३ ।।
व्युक्तोपान्त्यस्य शिति स्वरे ॥ ४. ३. १४ ॥
कृत द्वित्वस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति प्रत्यये परे गुणो न भवति । नेनिजानि, अनेनिजम्, वेविषाणि, अवेविषम्, बेभिदीति, अबेभिदम्, मोमुदीति, अमोदम्, नर्ऋतीति, अन तम् ।
द्वयुक्तेति किम् ? वेद, वेदानि, अवेदम् । उपान्त्यस्येति किम् ? जुहवानि, बोभवीति, सोषवोति । शितीति किम् ? निनेज, विवेद, - बेभेदिषीष्ट । स्वर इति किम् ? नेनेक्ति, मोमोक्ति, नर्नति ।। १४ ।।
न्या० स०
० - दव्युक्तो ० - संज्ञाशब्दत्वात् सूत्रत्वाद् वा क्तान्तं न पूर्व निपतति । बेदिषष्टेति यङलुपि कर्म्मण्याऽत्मनेपदं यङन्तात्तु गुणस्याप्राप्तिः यङकारस्य 'स्वरस्य' ७-४-११० इति स्थानित्वात् ।
द्विणोरविति व्यौ । ४ ३, १५ ॥
हु इण् इत्येतयोर्नामिन: स्वरादावपित्यविति च शिति परे यथासंख्यं वकारयकारादेशाविवोरपवादौ भवतः । जुह्वति, जुह्वतु, व्यतिजुह्वीरन्, व्यत्यजुह्वत, जुह्वत्, कतीह जुह्वानाः, यन्ति यन्तु, व्यतिप्रतियीरन्, मा स्म यन्, यन्, यन्तौ यन्तः । शितीत्येव - जुहुवतु, ईयतुः, ईयुः । स्वरादावित्येव, जुहुत:, इतः । अपिवतीति किम् ? पुस्, अजुहवुः, वित्-जुहवानि, अयानि । आयन्नित्यत्र तु 'एत्यस्तेर्वृद्धि:' ( ४-४-३०) इति वृद्धिरेवापवादत्वात् ।। १५ ।।
न्या० स०-ह्निणोर० - व्यतिप्रतियीरनिति - ज्ञानार्थत्वात् 'क्रियाव्यतिहारे' ३-३-२३ इत्यात्मनेपदम् । ईयतुरिति इणो द्वित्वे ' योऽनेकस्वरस्य २ - १ - ५६ इति यत्वापवाद 'इण: ' २-१-५१ इतीय् ततः 'समानानाम् ' १-२-१ दीर्घः ।
इको वा ॥ ४. ३. १६ ॥
इंक् स्मरणे इत्यस्य स्वरादावविति शिति परे वा यकारो भवति । अधियन्ति, अधयन्ति, अधियन्तु अधीयन्तु, व्यत्यधियीरन् व्यत्यधीयीरन्, मास्माधियन्, मास्माधीयन् कतीहाधियानाः, कतीहाधीयानाः ।। १६ ।।
1
,
कुटादिदणित् ॥ ४. ३. १७ ॥
तुदाद्यन्तर्गणो वृत्पर्यन्तः कुटादि:, कुटादेर्गणात्परो नित् विजितः प्रत्ययो