________________
पाद-३, सूत्र-११-१२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१४३
१-३-४१ इति र लोपे प्रागदीर्घ इति प्रथमप्रयोगे, द्वितीये तु 'रिरौच' ४-१-५६ इति रि: रीर्वा तस्य 'इवर्णादेः' १-२-२१ इति यत्वे 'रिः शक्य' ४-३-११० इति रिः, इयादेशस्तु 'पूर्वस्यास्वे स्वरे' ४-१-३७ इत्यत्र य्वोः पूर्वस्येति सामानाधिकरण्यव्याख्यानादिकारोकारमात्रस्यैव, अत्र तु अरि इति समुदायः पूर्व इति न, व्यधिकरणव्याख्याने तु अरियियादिति भवत्येव ।
न वृद्धिश्चाविति क्ङिल्लोपे ॥ ४. ३. ११ ॥
अविति प्रत्यये यः कितो डितश्च लोपस्तस्मिन्सति गुणो वृद्धिश्च न भवति, लोपोऽदर्शनमात्रमिह गृह्यते । यङ्लोपे देद्यः, वेव्यः, नेन्यः, लोलुवः, पोपुवः, मरीमृजः । विङदिति किम् ? रागी, रागः । अत्र नलोपे प्रतिषेधो मा भूत् ।।
केचित्त दधीवाचरतीति क्वि लोपे अप्रत्यये णिगि च दध्या दध्ययतीत्यत्रापि गुणवृद्ध्योः प्रतिषेधमिच्छन्ति, तन्मतसंग्राहार्थ विङल्लोपे सति प्रविति प्रत्यगे परे गुणवृद्धी न भवत इति व्याख्योयम् । विति तु,-दघयति, रोरवीति, बोभवीति । केचित्तु दोधीवेव्योरिवणे यकारे चान्तस्य लुकमन्यत्र तु गुणवृद्धिनिषेधमारभन्ते । आदीधिता, आवेविता, आदीधीत, आवेवीत, आदीध्यते, आवेव्यते । अन्यत्र आदीध्यनम् , आवेव्यनम् , आदीध्यकः, आवेव्यकः । तदसत छान्दसत्वादनयोः ।। ११ ॥
न्या० स०-न वृद्धिश्चा०-नामिन इति वर्तते । अदर्शनमात्रमिति-न तु लुकलुपावित्यर्थः, तद्ग्रहणे हि दध्येत्यादौ गुणप्रतिषेधो न स्यात् , अत्र हि क्विपो लुक लुप् वा न किन्तु अप्रयोगीत् । देद्य इति-दा संज्ञानां दीङ चेत्यस्य च यडि देदीयते इति वाक्ये अचि अचीति सस्वरस्यैव यङो लुप् , अन्यथा 'स्वरस्य' ७-१-११० इति अस्य स्थानित्वे गुणप्राप्तिर्न स्यात् ।
__मरीमज इति-'ऋतः स्वरे वा' ४-३-४३ इति वृद्धरनेन निषेधे गुणप्राप्तिः , प्यनेन निषिध्यते । दध्येति. स्वमते दघयनं, तन्मते तदध्यनमिति वाक्ये 'शंसिप्रत्ययादः' ५-३-१०५, दध्ययतीत्यत्र तु स्वमते परमतेऽपि दधयन्तं प्रयुङ क्ते इति वाक्यमिति व्याख्येयमिति, मूलव्याख्यानेऽविति प्रत्यये निमित्ते क्डिल्लोपे इत्युक्तमऽत्र तु डिल्लोपे सति अविति प्रत्यये परे इति भेदः ।
बोभवीतीति-ईत्परावयवो भवतीति वित्प्रत्ययः । दीधीवेव्योरिति-दीधी दीप्तिदेवनयोः वेवीङ वेतिना तुल्ये इत्यऽदादावात्मनेपदिनौ केचित् पठन्ति।
भवतेः सिजुलुपि ।। ४. ३, १२॥
सिचो लुपि भवतेर्गुणो न भवति । अभूत् , अभूताम् , अमूः । सिज्लुपीति किम् ? व्यत्यभविष्ट । तिवनिर्देशाद्यङ्लुपि न प्रतिषेधः। अबोभोत् ।। १२ ॥
न्या० स०-भवते०-ननु भवतेः सिच एव लोपोऽभ्यधायि तत् किं सिग्रहणेन ? सत्यं, भवतेलु पीति कृते भूरिवाचरत् अभवदित्यत्रापि गुणो न स्यात् । अबोभोदितिबुध्यतेरपीदं हस्तन्या दिवि भवति ।