________________
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-९-१०
अकीति किम् ? संचस्कृवान् , संचस्क्राणः, आनच्छवान् , विचिकीर्वान् , वितितीनि , विततिराणः, विशिशीर्वान् , विशशिराणः, निपुपूर्वान् , निपपुराणः । काने पूर्व द्वित्वम् पश्चादिरादि: स्वरविधित्वात् ।। ८ ॥
न्या० स०-स्कच्छृतो०-परिग्रहार्थमिति-तेन संस्क्रियते,संचेस्क्रीयते, संस्क्रियात् इत्यादौ क्यङाशीर्य' ४-३-१० इति गुणो न भवति । संयोगादतः' ४-४-३७ इति इट् न विकल्पेन । विततिराण इति-व्यतिहारे कर्मण्यात्मनेपदम् । विशशिराण इति-विशशरे 'ऋः शप्रः' ४-४-२० इत्यनेन नवा ऋत्वे विशश्रे इति वा वाक्ये 'तत्र क्वसु' ५-२-२ इति कान प्रत्ययः, एवं निपपुराण इत्यत्रापि निपप्रे निपपरे वेति वाक्यम् ।
संयोगादृदः ॥ ४.३.१ ॥
संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च परोक्षायां परतो गुणो भवति, अकि । सस्मरतुः, सस्मरः, सस्वरतुः, सस्वरुः, दद्वरतुः, दद्वरः, वध्वरतुः, दध्वरुः, ह्व-जह्वरतुः, जह्वरुः, प्रतिः, आरतुः प्रारः ।।
संयोगादिति किम् ? चक्रतुः, चक्रुः । ऋदतरिति किम् ? चिक्षियतुः, चिक्षियुः । गुणप्रतिषेधविषये पुनःप्रसवार्थ वचनम् , वृद्धिस्तु भवत्येव ? सस्मार, सस्वार, ऋत: संयोगेन विशेषणादतिग्रहणम् । तिनिर्देश उत्तरार्थः ॥ ९ ॥
न्या० स०-संयोगा०-आरतुरिति-'इवर्णादेः' १-२-२१ इति रत्वेनापि सिध्यति परमन्तरङ्गत्वात् 'अवर्णस्येवर्णादिना' १-२-६ इति । द्वित्वाकारस्याग्रेतनऋकारेण सह रत्वबाधकोऽरादेशो माभूदित्यत्तिग्रहणमुत्तरार्थ च, अथ अरादेशेऽपि 'अस्थादेराः' ४-१-५८ इत्यात्वे सेत्स्यति, तदपि न, यतो द्विवचने पूर्वाकारस्य 'अस्यादेः' ४-१-६८ इत्यात्वमऽभाणि आरिवानित्यत्र त्वन्तरङ्गत्वानाश्रयणात् रत्वमेव ।
उत्तरार्थ इति-इह यलुबन्तस्यार्तेरनेकस्वरत्वात् परोक्षायामामि सति 'वेत्तेः कित्' ३-४-५१ इति सूत्रादामि परोक्षाकार्याऽभावान्न यङ लनिवृत्त्यर्थमिति वाच्यं, तत्रामभावादामि च सिद्ध एव गुणो यथा अरराञ्चकार अरियराञ्चकारेति ।
क्ययङाशीये॥ ४.३.१०॥
संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च क्ये यडि प्राशीःसंबन्धिनि ये च प्रत्यये गुणो भवति । स्मर्यते, स्वर्यते, अर्यते, सास्मयंते, सास्वर्यते, अरार्यते, स्मर्यात् , स्वर्यात , अर्यात् ।
औपदेशिकसंयोगग्रहणाविह न भवति-संस्क्रियते, संचेस्कोयते, संस्क्रियात् । ऋत इत्येव,-प्रास्तीर्यते, आतेस्तीर्यते, पास्तीर्यात् । आशीर्य इति किम् ? स्मषीष्ट, समषीष्ट । अर्ते रिति तिनिर्देशाबलपि न भवति । प्रारियात् , अप्रियात् ॥ १०॥
न्या. स०-क्यङा०-संस्क्रियत इति-कस्यादिरिति व्याख्यानेऽनुस्वारस्य व्यञ्जनत्वात् 'धटो धुटि' १-३-४८ इत्येकस्य सस्य वा लुक् । प्रारियादिति यङ लुपि द्वित्वे 'रिरोच' ४-१-५६ इति रागमे क्याति 'रिः शक्याशीर्ये' ४-३-११० इति धातो रिः, 'रो रे लुक'