________________
पाद-३, सूत्र-५-८]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१४१
उपान्त्यस्येति किम् ? भिनत्ति, रुणद्धि, तृणत्ति, छुरणत्ति । अक्ङितीत्येव,-भिन्नः, भिन्नवान् , बेभिद्यते, मरीमृज्यते ॥ ४ ॥
न्या० स०-लघो०-ननु 'नामिनो गुण' ४-३-१ इत्यनेनान्त्यविधानसामर्थ्यादनेनोपान्त्यस्यैव भविष्यति किमुपान्त्यग्रहणेन ?, न च वाच्यं पूर्वेणाक्डिति गुणोऽनेन तु विङत्यपि गुणो भवत्वेतदर्थं, 'जागुः किति' ४-३-६ 'ऋवर्णदृश' ४-३-७ इति सूत्रद्वयकरणात् ?
न, लघोरिति सति जागर्तेः कित्येव गुण इति विपरीतनियमाशङ्का स्यात् , अनामिनो वा गुण: स्यात् इति संदेहनिरासार्थमुपान्त्यग्रहणम् ।
मिदः श्ये ॥ ४. ३.५ ॥ मिदेरुपान्त्यस्य श्ये परे गुणो भवति । मेद्यति, मेद्यतः, मेद्यन्ति ॥५॥ जागुः किति ।। ४. ३. ६ ॥
जागतः किति प्रत्यये परे गुणो भवति । जागरित:, जागरितवान् , जागर्यते, जागयात् । क्वौ-जागः जजागरतुः, जजागरुः । कितीति किम् ? जागृतः, जापति, जाग्रत , जागयात् , जागृविः । इह कस्मान्न भवति जजागृवानिति ? जागर्तेः क्वसुरनभिधानाद्भाषायां नास्तीत्येके । गुणमेवेच्छन्त्येके-जजागर्वान् । अपरे तु क्वसुकानयोर्गुणप्रतिषेधमेवाहाजजागृवान् , व्यतिजजामाणः । विङति प्रतिषेधे प्राप्ते वचनम् । अक्ङिति तु पूर्वेणैव गुणः,जागरिता ॥६॥
न्या० स०-जागुः किति-जजागृवानितीति-एके सर्वथापीदं न मन्यन्तेऽतः परमतेन दशितम् ।
ऋवर्णदृशोऽङि ॥ ४. ३, ७॥
ऋवर्णान्तानां धातूनां दृशश्चाडि प्रत्यये परे गुणो भवति । मा भवानरव , असरत् , असरताम् , अजरत् , अजरताम् , अदर्शत् , अदर्शताम् ॥ ७ ।।
स्कुच्छृतोऽकि परोक्षायाम् ॥ ४. ३. ८ ॥
स्कृ ऋछ इत्येतयोऋकारान्तानां च धातूनां नामिनः परोक्षायां परतो गुणो भवति, अकि ककारोपलक्षितायां क्वसुकानरूपायां न भवति ।
स्कृ,-संचस्करतुः. संचस्करुः, ऋछ-आनर्छ, आनछतुः, आनछुः । ऋव , कृ,विचकरतुः, विचकरुः, तृ-तेरतुः, तेरुः, शृ-विशशरतुः, विशशरुः, दृ-विददरतुः, विददरुः । पृ,-निपपरतुः, निपपरुः । स्कृ इति कृगः सस्सट उपादानादिह न भवति,-चक्रतुः, चक्रुः। उत्तरेणैव सिद्धे स्कृग्रहणमुत्तरत्रौपदेशिकसंयोगपरिग्रहार्थम् । विचकार निजगारेत्यादौ परत्वाद्वृद्धिरेव।