________________
अथ तृतीयः पादः नामिनो गुणोऽक्ङिति ॥ ४. ३. १ ॥
नाम्यन्तस्य धातो: कितडितजिते प्रत्यये परे आसन्नो गुणो भवति । चेता, नेता, स्तोता, लविता, कर्ता, तरिता, जयति, नयति, जुहोति, भवति, बिभति, तरति, करोति, एता एतोत्याद्यन्तवद्भावात्।
नामिन इति किम् ? उम्भिता, याति, ग्लायति, म्लायतीति ऐकारोपदेशबलान्न गुणः । नीम्याम् , लभ्यामिति गौणत्वात् । अविडतीति किम् ? चितः, चितवान् , अशिश्रियत् , अदुद्रुवत् , लिल्ये लुलुवे, इतः, युतः ॥ १।।
__न्या० स०-नामिनो गु० कर्तेति-निद्दिश्यमानत्वात् ऋकारर येवादेशो न त्वनेकवर्णः सर्वस्य । ऐकारोपदेशबलादिति-यद्वा गुण इति सान्वयसंज्ञेयं, तेन हानिरेव, न गुण उत्कर्षरूप इति तथा नौरिवाचरति नावति, नाव इवाचरणं नावा इत्यादौ न गुणः । गौणत्वादिति-नामार्थसंवलितधात्वर्थाभिधायित्वेन ।
उश्नोः ॥ ४. ३. २ ॥
धातोः परयोरुश्नु इत्येतयोः प्रत्यययोरङिति प्रत्यये परे गुणो भवति । तनोति, करोति, समर्णोति, तर्णोति, धर्णोति । धातोस्तु पूर्वेणोत्तरेण च गुणः । श्नु-सुनोति, सिनोति । अक्डिन्तीत्येव,-कुरुतः, सुनुतः ।। २ ॥
पुस्पो॥ ४. ३. ३ ॥
नाम्यन्तस्य धातो पुसि पौ च परे गुणो भवति । अबिभयुः, अजुहवः, अबिभरुः, ऐयरुः, अजागरुः । पु-अर्पयति, रेपयति, उलेपयति, हृपयति, क्नोपयति । नाम्यन्तस्येत्येव,अनेनिजुः, क्ष्मापति, दापयति ॥३॥
न्या० स० -पुस्पौ-नन्वत्र पुग्रहणं किमर्थं 'अत्तिरीली' ४-२-२१ इत्यत्र पोरागमत्वमपनीय प्रत्ययत्वे कृते 'नामिनो गुणः' ४-३-१ इत्यनेनैव गुणः सेत्स्यति, आगमत्वे तु पोर्धातुग्रहणेन ग्रहणात् अर्पयतीत्यत्रैव गुणः सिध्यति, रेपयतीत्यादौ तु गुरूपान्त्यत्वान्न सिद्ध्यति, प्रत्ययत्वे तु पोः सर्वत्र सिध्यति ? सत्यं -पोः प्रत्ययत्वे कृतेऽरीरिपत् अदीदपदित्यादावुपान्त्यत्वाभावात् 'उपान्त्यस्यासमानलोपि' ४-२-३५ इत्यनेन ह्रस्वत्वं न स्यादिति ।
लघोरुपान्त्यस्य ।। ४. ३. ४ ॥
धातोरुपान्त्यस्य नामिनो लघोरविङति प्रत्यये परे गुणो भवति । भेत्ता, गोप्ता, वर्तिता, भेदनम् , गोपनम् , वर्तनम् , वेत्ति, दोग्धि, ननति । लघोरिति किम् ? ईहते, कहते ।