________________
पाद-२, सूत्र-१२०-१२३ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने चतुर्थोऽध्यायः
[ १३९
आशिषि विहितयोस्तुह्योः स्थाने तातङ् आदेशो वा भवति । जीवताद्धवान् , जीवतु भवान् , जीवतात् त्वम् , जीव त्वम् , आशिषीति किम् ? जीवतु, जीव । डिस्करणं गुणनिधार्थम् ।। ११६ ।।
न्या०स० आशिषि ०-गुणनिधार्थमिति- इदं चोपलक्षणं तेन ङित्करणेन तदादेशेति न्यायात् स्थानिनस्तुवो वित्त्वं बाध्यते, तेन युतात् रुतादित्यादौ विद्व्यञ्जनप्रत्ययाभावात् 'उत औविति' ४-३-५९ इति नौकारः, न तु शित्त्वमपि बाध्यते, यतस्तस्यैव शितो ङित्वं ततो ङित्वेन, वित्त्वमेव हन्यते न तु शित्त्वं ततश्च स्तात् इत्यादौ विच्छति प्रत्यये 'इनास्त्योलुक' ४-२-९० इति लुक सिद्धः ।
श्रातो णव औः ।। ४. २. १२० ॥
वेति निवृत्तम् , आकारात्परस्य णवः स्थाने औरित्ययमादेशो भवति । पपौ, तस्थौ सः, सुप्तोऽहं किल ययौ, पपौ । आत इति किम् ? स जगाय, सुप्तोऽहं किल विललाप ।१२०
न्या० स०-आतो०-वेति निवृत्तमिति-वेति शितीति संबद्धं णवग्रहणात्तन्निवत्तौ निवृत्तं , अत्र ओकारेणैव सिद्धे औकारकरणं ददरिद्रावित्याद्यर्थ, अन्यथा 'अशित्यस्सन्' ४-३-७७ इत्याल्लोपे इदं न सिध्येत् , नन्वत्रामादेशेन भाव्यं तत्कथमेतदर्थम् ? सत्यं, अत एव औकारकरणादामादेशस्यानित्यत्वम् । किल ययाविति-'कृतास्मरणा' ५-२-११ इति परोक्षा।
आतामातेआथामाथेआदिः॥ ४. २.१२१ ॥
अकारात्परेषामातामातेआथामाथे इत्येतेषाम् आत इर्भवति । पचेताम् , पचेते, पचेथाम, पचेथे । आदिति किम् ? मिमाताम् , मिमाते, मिमाथाम् , मिमाथे ॥१२॥
न्या० स०-आतामा०-आत इति-अर्थवशाद्विभक्तिपरिणामः । यः सप्तम्याः ॥४. २.१२२ ॥
अकारात्परस्य सप्तम्याः संबन्धिनो याशब्दस्येकारादेशो भवति । पचेत , पचेताम् पचेः, पचेतम् , पचेत, पचेव, पचेम । आदित्येव,-अद्यात् ।। १२२॥
__न्या० स०-यः सप्तम्या:-या शब्दस्येति-नन्वाकार स्याधिकृतत्वात् येन नाव्यवधानमिति न्यायाद्यव्यवधानेऽपि आत एव, यद्वा प्रत्ययस्येति परिभाषया समस्ताया अप्यादेशः प्राप्तः ? न, समस्ताया अप्यादेशोऽभिप्रेतो यदि स्यात्तदा यादि सप्तम्या इति क्रियेत, स्थिते तु निदिश्यमानानामिति न्यायात् या शब्दस्यादेशः।
इत्याचार्य चतुर्थस्याध्यायस्य द्वितीयः पादः । यामयुसोरियमियुसौ ॥ ४. २. १२३ !! ___ अकारात्परयोर्याम्युस् इत्येतयोर्यथासंख्यमियमियुसावादेशौ भवतः । पचेयम् , पचेयुः ।। १२३ ॥
- इत्याचार्यश्रीहेमचन्द्र विचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्ती चतुर्थस्याध्यायस्य द्वितीयः पादः समाप्तः । श्रीभीमपृतनोत्खातरजोभिरिभूभुजाम् । अहो चित्रमवर्धन्त ललाटे जलबिन्दवः ॥१॥