________________
१३८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद २, सूत्र-११४-११९
तल्लक्षणयोगेऽपीति-तस्य प्लुतस्य यल्लक्षणं तद्योगेऽपीत्यर्थः । अनतोऽन्तोऽदात्मने ॥ ४. २. ११४ ॥
अनकारात्परस्यात्मनेपदसंबन्धिनोऽन्तरूपस्यावयवस्यात् इत्ययमादेशो भवति । चिन्वते, चिन्वताम् , अचिन्वत , लुनते, लुनताम् , अलुनत । आत्मनेपदस्येति किम् ? चिन्वन्ति लुनन्ति । अनत इति किम् ? पचन्ते, पच्यन्ते ॥ ११४ ।।
न्या० स० अनतो०-पचन्ते, पच्यन्ते इति-प्राचः परो विधिरिति व्याख्यानेन अकारस्य स्थानित्वं भूतपूर्वकन्यायाद् वा।
शीङो रत् ॥४. २. ११५॥
शोङः परस्यात्मनेपदसंबन्धिनोऽन्तो रत् इत्ययमावेशो भवति । शेरते, शेरताम् , अशेरत ॥ ११५ ।।
न्या० स०-शोडो-यङ लुपि व्यति शेश्यते । वेत्तेर्नवा ॥ ४. २. ११६॥
वेत्तेः परस्यात्मनेपदसंबन्धिनोऽन्तो रत् इत्ययमादेशो वा भवति । संविद्रते, संविव्रताम् ; समविद्रत, पक्षे,-संविदते, संविदताम् , समविवत । आत्मन इत्येव,-विदन्ति, वेत्तेरिति किम् ? रौधादिकस्य मा भूत्-विन्दते ॥ ११६ ।।
न्या० स०-वेत्ते.-वेत्तेस्तिनिर्देशो यङ लुपि निवृत्त्यर्थश्च तेन व्यतिवेविदते । तिवां णवः परस्मै ॥ ४. २. ११७ ॥
वेत्तेः परेषां परस्मैपदसंबन्धिना तिवादीनां नवानां प्रत्ययानां स्थाने परस्मैपदसंबन्धिन एव णवादयो नवावेशा यथासंख्यं वा भवन्ति ।
वेद, विदतुः, विदुः, वेस्थ, विवथः, विद, बेव; विद्व, विप्र, वेत्ति, वित्तः, विवन्ति, वेत्सि, वित्थः, विस्थ, वेधि, विद्वः, विपः ॥ ११७॥
न्या० स०-तिवां-णवादय इति-अमीषां तदादेशेति न्यायात्परोक्षाकार्य न भवति । ब्रगः पञ्चानां पञ्चाहश्च ॥ ४, २. ११८॥
बगः परेषां तिवादीनां पञ्चानां स्थाने यथासंख्यं पश्च पवादय आदेशा वा भवन्ति, तत्संनियोगे ब्रूग आह इत्यादेशश्च भवति ।
आह, पाहतुः, आहुः आत्थ 'नहाहोतो' (२-१-८०६) इति हकारस्य तकारः । माहथः, ब्रवीति, बतः, अवन्ति, ब्रवीषि, बूथः । पश्चानामिति किम् ? बूथ ।। ११८ ॥
आशिषि तुह्योस्तातङ् ॥ ४. २. १११ ॥