________________
बाद- २, सूत्र. ११०-११३ ] श्रीसिद्धहेम चन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १३७
क्रमेः परस्मैपदे शिति परे दीर्घो भवति अत्यादौ क्रामति, क्राम्यति, क्रामन्, क्राम्यन्, श्रक्रामन् परस्मैपद इति किम् ? श्राक्रमते सूर्यः, आक्रममाणः । परस्मैपदनिमित्तविज्ञानाद्धेलु क्यपि भवति । क्राम, संक्राम ।। १०६ ॥
ष्ठिवलम्वाचमः ॥। ४. २. ११० ॥
food: क्लमेराङ्पूर्वस्य च चमेः शिति परे दीर्घो भवति अत्यादौ ष्ठीवति, देवादिकस्य तु ष्ठिवो दीर्घोऽस्त्येव । क्लामति, क्लाम्यति श्राचामति । चमेराङपूर्वस्य ग्रहणादिह न भवति, चमति विचमति । ष्ठिक्लमोरूकार निर्देशाद्यङ लुपि न भवति, - तेष्ठिवत्, चंवलमत् । 'अन्तो नो लुक् ' ( ४-२-६४ ) ।। ११० ।।
शमसप्तकस्य श्ये ।। ४. २. १११ ॥
अत्यादाविति निवृत्तम्, - शमादीनां मदेच्पर्यन्तानां सप्तानां श्ये परे दीर्घो भवति । शाम्यति, दाम्यति, ताम्यति, श्राम्यति, भ्राम्यति, क्षाम्यति, माद्यति ।
शमसप्तकस्येति किम् ? अस्यति । श्य इति किम् ? भ्रमति ।। १११ ।।
न्या० स०-शम् सप्त०-भ्रमतीति-भ्रमूच् अनवस्थाने इत्यस्य रूपं, अस्य यङ लुपि न दीर्घः शमादिगणनिर्देशात् श्यस्तु भवत्येव ' भ्रासभ्लास' ३-४-७३ इति प्रतिपदोक्तवात् तेन बंभ्रम्यतीति भवति ।
1
"
विसिवोऽनटि वा ।। ४. २. ११२ ॥
ष्ठिवः सीव्यतेश्वानटि वा दीर्घो भवति । निष्ठीवनम् निष्ठेवनम्, सीवनम्, सेवनम् ।। ११२ ।।
1
मव्यस्याः || ४. २. ११३ ॥
धातोविहिते मकारादौ वकारादौ च प्रत्ययेऽकारस्याकारो दीर्घो भवति । पचामि, पचाव:, पचामः पचावहे, पचामहे । वयो यङ्लुपि-वावामि, वावावः, वावामः । धातोः प्रत्ययेनाभिसंबन्धो नाकारेणेति प्रत्ययाकारस्यापि दीर्घो भवति । अस्येति किम् ? चिनुव: चिनुमः, रुवः रुमः । आकारास्य दीर्घत्वेन विशेषणमाकारो दीर्घ एव यथा स्यात् न प्लुतः तल्लक्षणयोगेऽपीत्येवमर्थम् ।। ११३ ।।
न्या० स०- मव्यस्या०-वावाव इति यत्र धातोराकारान्तत्वे सति व्युक्तत्वं तत्र 'एषामी' ४-२ - ९७ इति ईत्वं यत्र युक्तत्वे सति आकारान्तत्वं तत्र लाक्षणिकत्वात् आकारस्य न ईत्वं तेनात्र न ईकारः ।
आकारस्य दीर्घत्वेनेति-वृत्तावाकारो दीर्घो भवतीति किमर्थमुक्तं यत आकारो दीर्घ एवेत्याशङ्का न लूत इति । स्वमते तु 'सम्मत्यसूया' ७-४-८६ इत्यतः सूत्रात् अन्त्य इत्यधिकारे 'प्रश्ने च' ७-४-९८ इति प्लुतो न प्राप्नोति; परं केचिदनन्त्यस्यापि इच्छन्ति, तन्मते माभूदित्यर्थः ।